गर्भसन्धि:

फलप्रधानोपायस्‍य प्रागुद्भिन्‍नस्‍य किंचन ।
गर्भो यत्र समुद्भेदो हासान्‍वेषणवान्‍मुहु: ।।
।।साहित्‍यदर्पण 6/78-79।।
मुखप्रतिमुखसन्‍धयो: किंचित् प्रकटफलप्रधानोपायस्‍य यत्र ह्रास: विकासश्‍च भवति तत्र गर्भसन्धि: । फलस्‍य अन्‍तर्निहितत्‍वात् इयं गर्भसन्धि: कथ्‍यते । फलस्‍य गर्भीकरणाद् गर्भ: ।।
भरतमुनिना उक्‍तम् -
उद्भेदस्‍तस्‍य बीजस्‍य प्राप्तिरप्राप्तिरेव वा
पुनश्‍चान्‍वेषणं यत्र स गर्भ इति संज्ञिता: ।।

इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।