वाक्‍यनिर्माणे आवश्‍यकता ।।

     गत अभ्‍यासे वयं दृष्‍टवन्‍त: वाक्‍यस्‍य निर्माणं कथं भवति । इत्‍यपि ज्ञातवन्‍त: यत् कारकं किम् तेषां संख्‍या च का इति । सम्‍प्रति अस्मिन् अभ्‍यासे वयं वाक्‍यस्‍य निर्माणे कस्‍य कस्‍य आवश्‍यकता भवति इति पश्‍याम: ।
 
राम: गृहं गच्‍छति - अस्मिन् वाक्‍ये त्रय: शब्‍दा: सन्ति । यत्र राम: कर्ता (गमन क्रियाया: कर्ता), गृहं कर्म गच्‍छति च क्रिया अस्ति । अस्मिन् लघु वाक्‍ये एक: कर्ता, एकं कर्म, एका क्रिया च अस्ति ।
सर्वतो लघु वाक्‍ये 'राम: गच्‍छति' इति - न्‍यूनातिन्‍यूनं एक: कर्ता, एका क्रिया च भवेत् । अस्‍य चर्चा पूर्वतने अध्‍याये कृता एव अस्ति ।


संस्‍कृते वाक्‍यनिर्माणे सप्‍तवस्‍तूनाम् आवश्‍यकता भवति । एतानि सप्‍तवस्‍तूनि एव सप्‍तविभक्‍तय: इति कथ्‍यन्‍ते । एतैरतिरिक्‍तं संस्‍कृते वाक्‍यस्‍य नास्ति अन्‍य: प्रकार: । केवलं संस्‍कृते एव न अपितु विश्‍वस्‍य कामपि भाषायाम् एत‍दतिरिक्‍तं अन्‍यविधया वाक्‍यनिर्माणं शक्‍यं न भवति ।

उदा -
  1. राम: गच्‍छति (कर्ता, क्रिया) 
  2. राम: गृहं गच्‍छति (कर्ता, कर्म, क्रिया)
  3. राम: यानेन गृहं गच्‍छति (कर्ता, करण, कर्म, क्रिया)
  4. राम: भोजनाय यानेन गृहं गच्‍छति (कर्ता, सम्‍प्रदान, करण, कर्म, क्रिया) 
  5. राम: विद्यालयात् भोजनाय यानेन गृहं गच्‍छति (कर्ता, अपादान, सम्‍प्रदान, करण, कर्म, क्रिया ) 
  6. राम: विद्यालयात् भोजनाय यानेन मित्रस्‍य गृहं गच्‍छति (कर्ता, अपादान, सम्‍प्रदान, करण, सम्‍बन्‍ध, कर्म, क्रिया)
  7. राम: विद्यालयात् भोजनाय यानेन मित्रस्‍य गृहं गच्‍छति प्रकोष्‍ठे प्रविशति च (कर्ता, अपादान, सम्‍प्रदान, करण, सम्‍बन्‍ध, कर्म, क्रिया, अधिकरण, क्रिया )। 

एवं विधा वाक्‍यस्‍य निर्माणं सप्‍तविधा एव भवति, एता: एव सप्‍त विभक्‍तय: तदनुसारं षड् कारकं, एक: सम्‍बन्‍ध: च ।


इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

अव्यय पदानि ।।

शरीरस्‍य अंगानि

क्रीड् (खेलना) धातु: - परस्‍मैपदी