संदेश

March, 2015 की पोस्ट दिखाई जा रही हैं

अभिनिविशश्‍च - द्वितीया विभक्ति:

चित्र
अभिनिविशश्‍च

अभि, नि च उपसर्गपूर्वकं यदा विश् धातो: प्रयोग: भवति चेत् तस्‍याधारं कर्मसंज्ञकं भवति ।
उदाहरणम् -
अभिनिविशते सन्‍मार्गं ।

अत्र मार्गशब्‍दस्‍य आधारत्‍वात कर्मसंज्ञत्‍वमभवत् विशधातुना सह् अभि, नि उपसर्गयो: तेन सार्धं प्रयोगकारणात् । यदि तौ उपसर्गौ सहैव न स्‍याताम् चेत् वाक्‍यस्‍वरूपं किमपि अन्‍यत् भवेत् ।

यथा - निविशते सन्‍मार्गे ।

अत्र विश् धातुना सह केवलं नि उपसर्गं योजितं तेन् तत्र कर्मत्‍वं न जातम् । अपितु अधिकरणम् ।

इति

अधिशीड्.स्‍थासां कर्म - द्वितीया विभक्ति:

चित्र
अधिशीड्.स्‍थासां कर्म

अधि उपसर्गपूर्वकं शीड्., स्‍था, आस् एतेषां धातूनामाधार: कर्मसंज्ञक: स्‍यात् ।

उदाहरणम् -

अधिशेते वैकुण्‍ठं हरि: ।
अध्‍यास्‍ते वैकुण्‍ठं हरि: ।
अधितिष्‍ठति वैकुण्‍ठं हरि: ।

अत्र अधि उपसर्गपूर्वकम् उपयुक्‍तधातूनाम् आधार: 'वैकुण्‍ठ' इत्‍यस्‍य सर्वत्र कर्मसंज्ञा अ‍भवत् ।


इति

अभिवादि दृशोरात्‍मनेपदे .. - द्वितीया विभक्ति:

चित्र
अभिवादि दृशोरात्‍मनेपदे वेति वाच्‍यम्

('अभि' पूर्वकं वदि धातु:, दृश् धातु:) उभौ च यदा प्रेरणार्थकौ सन्‍तौ आत्‍मनेपदौ प्रयुज्‍यतां चेत् उभयो: साधारणावस्‍थाया: कर्तु: ण्‍यन्‍तावस्‍थायां कर्मत्‍वं विकल्‍पेन भवति ।

उदाहरणम् -
अभिवादयते दर्शयते वा देवं भक्‍तं भक्‍तेन वा ।

विस्‍तरेण -
अभिवादयते देवं भक्‍तं ।
अभिवादयते देवं भक्‍तेन ।
दर्शयते देवं भक्‍तं ।
दर्शयते देवं भक्‍तेन ।
अत्र विकल्‍पेन कर्मसंज्ञत्‍वं, करणसंज्ञत्‍वं द्वयं चाभवत् । तेन द्वितीया, तृतीया च द्वयो: एकं विकल्‍पेनाभवत् ।

इति

हृक्रोरन्‍यतरस्‍याम् - द्वितीया विभक्ति:

चित्र
हृक्रोरन्‍यतरस्‍याम्
हृ (ले जाना), कृ (करना) द्वयोरपि अण्‍यन्‍तावस्‍थाया: कर्ता विकल्‍पेन कर्मसंज्ञक: भवति ।

उदाहरणम् -
हारयति कारयति वा भृत्‍यं भृत्‍येन वा कटम् ।
विस्‍तरेण -
हारयति भृत्‍यं कटम्
हारयति भृत्‍येन कटम्
कारयति भृत्‍यं कटम्
कारयति भृत्‍येन कटम्
अत्र विकल्‍पेन कर्मसंज्ञा अपि भवति, करणसंज्ञा अपि भवति, अत: द्वितीया अपि योजितुं शक्‍यं तृतीया चापि ।



इति

शब्‍दायतेर्न (वार्तिकम्) - द्वितीया विभक्ति:

चित्र
शब्‍दायतेर्न (वार्तिकम्)
अनेन वार्तिकेन 'शब्‍दाययति' इत्‍यस्‍या: क्रियाया: कर्ता प्रेरणावस्‍थायां (ण्‍यन्‍तावस्‍थायां) कर्मत्‍वं न धारयति । इत्‍युक्‍ते तस्‍य कर्मसंज्ञा न भवति ।

उदाहरणम् -
शब्‍दाययति देवदत्‍तेन ।

अत्र कर्मत्‍वं न अपितु करणत्‍वमभवत् उक्‍तक्रियाया: कर्तु: ।।



इति

दृशेश्‍च - द्वितीया विभक्ति:

चित्र
दृशेश्‍च
दृश धातो: अण्‍यन्‍तावस्‍थाया: कर्ता ण्‍यन्‍तावस्‍थायां कर्मसंज्ञकं भवति ।

उदाहरणम् -
दर्शयति हरिं भक्‍तान्
भक्‍तों को हरि दिखाता है (हरि का दर्शन कराता है) ।

अत्र अण्‍यन्‍तावस्‍थाया: 'भक्‍त' इति कर्तु: ण्‍यन्‍तावस्‍थायां कर्म संज्ञा जाता ।


इति

जल्‍पति प्रभृतीनामुपसंख्‍यानम् - द्वितीया विभक्ति:

चित्र
#DwitiyaVibhakti #KarmKarak #Vibhakti

जल्‍पति प्रभृतीनामुपसंख्‍यानम्

जल्‍पादि अण्‍यान्‍तावस्‍थाया: कर्तु: ण्‍यन्‍तावस्‍थायां कर्मसंज्ञा भवति ।

उदाहरणम् -
पुत्रं धर्मं जल्‍पयति भाषयति वा ।
पुत्र को धर्म की शिक्षा दिलाता है ।


अत्र जल्‍पधातो: योगे ण्‍यन्‍तावस्‍थायां कर्तु: कर्मत्‍वमभवत् ।


इति

भक्षेरहिंसार्थस्य न - द्वितीया विभक्ति: ।।

चित्र
#DwitiyaVibhakti #KarmKarak #Sanskritjagat

भक्षेरहिंसार्थस्य न (वार्तिकम्)      भक्ष् धातो: अंहिसार्थे अर्थप्रयोग: सन् ण्‍यन्‍तावस्‍थायां (प्रेरणार्थक) तस्‍य कर्म संज्ञा न भवति ।

उदाहरणम् - तेन् फलं भक्षयति ।
उसको फल खिलाता है ।


उपर्युक्‍तवार्तिकानुसारेण अत्र कर्तरि तृतीया विभक्ति: योजिता ।

इति

।। नववर्षं मंगलमयं भवतु ।।

चित्र
संस्‍कृतजगत् परिवार: भवतां सर्वेषां कृते नूतनवर्षस्‍य, वासन्‍तीय-नवरात्रप्रारम्भस्‍य च कोटिश: शुभकामनां  व्‍याहरति ।। 

5117 - युगाब्‍दस्‍य  2072 संवत्‍सरस्‍य  वासन्‍तीनवरात्रप्रारम्‍भस्‍य च महत् शुभाषया: । इदं नववर्षं सर्वेषां कृते शुभं, कल्‍याणकरं, उन्‍नतिप्रदायकं च भव‍तु ।। 
इति

आदिखाद्योर्न - द्वितीया विभक्ति:

चित्र
आदिखाद्योर्न (वार्तिकम्)अद् , खाद् च धातुद्वयस्‍य प्रयोजक: कर्ता कर्मसंज्ञत्‍वं न धारयति । इत्‍युक्‍ते तस्‍य ण्‍यन्‍तावस्‍थायां कर्म संज्ञा न भवति ।। 

उदाहरण -

आदयति खादयति वान्‍नं वटुना
ब्राह्मण अन्‍न खिलाता है ।

अत्र कर्तावटु: कर्मत्‍वं न व‍हति अपितु करणत्‍वं धारयति ।



इति

नियन्‍तृकर्तृकस्‍य - द्वितीया विभक्ति:

चित्र
#Vibhakti #Karak #Sanskritjagat


नियन्‍तृकर्तृकस्‍य वहेरनिषेध: (वार्तिकम्)        यत्र वह् धातो: कर्ता एव नियन्‍ता भविष्‍यति तत्र कर्मसंज्ञाया: निषेध: न भविष्‍यति । इत्‍युक्‍त तस्‍य कर्मकारकं भविष्‍यति एव ।


उदाहरण - वाहयति रथवाहान् सूत:
सारथी रथवाहकों से रथ चलवाता है ।

अत्र वाहान् शब्‍दस्‍य कर्मत्‍वं न निषिध्‍यते ।


इति

नीवह्योर्न - द्वितीया विभक्ति: ।।

चित्र
नीवह्योर्न (वार्तिकम्) नी, वह् धातुभ्‍याम् च अप्रेरणार्थककर्तु: ण्‍यन्‍तावस्‍थायां कर्मपरिवर्तनं नैव भवति, किन्‍तु करणकारकं भवति। अर्थात् नी, वह च धातुभ्‍यां अण्‍यन्‍तावस्‍थाया: कर्ता ण्‍यन्‍तावस्‍थायां करण भवति, न तु कर्म।

उदाहरणम् - नाययति वाहयति वा भारं भृत्‍येन ।
भृत्‍य से भार ढुलवाता है ।


इति

गतिबुद्धिप्रत्‍यवसानार्थ....... - द्वितीयाविभक्ति: ।।

चित्र
गतिबुद्धिप्रत्‍यवसानार्थशब्‍दकर्माकर्मकाणामणि कर्ता स णौ (वार्तिकम्)      गत्‍यर्थक (गम्, इण आदि), बुद्ध्यर्थक (ज्ञा, विद्, बुध् आदि) प्रत्‍यवसानार्थक (भक्ष्, भुज् आदि) शब्‍दकर्मक तथा अकर्मक (स्‍था, आस्, शीड्. आदि) धातूनां अण्‍यन्‍तावस्‍थायां (सामान्‍य अवस्‍था) य: कर्ता भवति स: ण्‍यन्‍तावस्‍थायां (प्रेरणार्थक अवस्‍था) कर्मसंज्ञकं भवति तत्र च द्वितीया विभक्ति: योज्‍यते ।

उदाहरण -

साधारण (अण्‍यन्‍तावस्‍था)प्रेरक (ण्‍यन्‍तावस्‍था)शत्रव: स्‍वर्गमगच्‍छन् हरि: शत्रून् स्‍वर्गम् अगमयत् देवा अमृतमाश्‍नन् हरि: देवान् अमृतमाशयत्
    उक्‍तवाक्‍ययो: शत्रु, देव च साधारणावस्‍थायां कर्ता आस्‍ताम् किन्‍तु ण्‍यन्‍तावस्‍थायां कर्म अभवताम् । तदर्थं तेषु द्वितीयाविभक्ति: जाता ।



इति

अकर्मकधातुभिर्योगे - द्वितीया विभक्ति

चित्र
अकर्मक धातुभिर्योगे देश: कालो भावो गन्‍तव्‍यो ध्‍वा च कर्मसंज्ञक इति वाच्‍यम् (वार्तिकम्)

    अकर्मकधाभिर्योगे देश, काल, भाव, गन्‍तव्‍यपथस्‍य च कर्मसंज्ञा भवति तदनुसारं द्वितीयाविभक्तिश्‍च भवति  ।

उदाहरण -

कुरून् स्‍वपिति - कुरुओं में सोता है । (देश)
मासमास्‍ते - मास भर रहता है । (काल)
गोदोहमास्‍ते - गाय दुहने तक रहता है । (भाव)

क्रोशमास्‍ते - कोस भर रहता है । (गन्‍तव्‍यपथ)


इति

अकथितं च (उदाहरणानि) - द्वितीया वि‍भक्ति:

चित्र
दुह् (दुहना) - गां दोग्धि पय: । गाय से दूध दुहता है । (अत्र अपादानकारकस्‍य अर्थप्रकटने सति अपि उक्‍तसूत्रेण कर्मकारकं जातम्)
याच् (माँगना) बलिं याचते वसुधाम् बलि से पृथ्‍वी माँगता है ।
याच् धातो: समानार्थी 'भिक्ष्' धातोरपि प्रयोगे द्वितीया एव भविष्‍यति । बलिं भिक्षते वसुधाम्
पच् (पकाना) तण्‍डुलान् ओदनं पचति चावलों से भात् बनाता है ।
दण्‍ड् (दण्‍ड देना) गर्गान् शतं दण्‍‍डयति गर्गो पर 100रू. का दण्‍ड लगाता है ।
रुधि (रोकना) व्रजं गां अवरुणद्धि बाडे में गाय को रोकता है ।
पृच्‍छ् (पूछना) माणवकं पन्‍थानं पृच्‍छति बालक से रास्‍ता पूछता है ।
चि (चुनना)लतां पुष्‍पं चिनोति   लता से पुष्‍प चुनता है 
ब्रू, शास् (बोलना, उपदेश करना) माणवकं धर्मं ब्रूते शास्ति वा बालक को धर्म का उपदेश करता है ।
जि (जीतना) देवदत्‍तं शतं जयति देवदत्‍त से 100रू. जीतता है ।
मथ् (मथना) अमृतं क्षीरनिधिं मथ्‍नाति ।  अमृत के लिये क्षीरसागर का मन्‍थन करता है । 
मुष् (चुराना) शतं मुष्‍णाति देवदत्‍तं देवदत्‍त से 100रू. चुरा लेता है ।
नी, हृ, कृष्, वह् (ले जाना) ग्रामं अजां नयति, हरति, वहति, क‍र्षति वा गाँव में बकरी को ले …

होलीफागगानम् - 2015 (दुर्लभचलचित्रम्) ।।

चित्र
प्रतिवर्ष अ‍स्‍माभि: भवतां पुरत: होलिकोत्‍सवस्‍य फागगान‍चलचित्राणि प्रस्‍तूयते । तेनेव क्रमेण अस्मिन् वर्षे अपि होलिकोत्‍सवे फागगानस्‍य श्रृंखला प्रदीयते ।
अत्र प्रथमचलचित्रं तु अस्ति महाकवि श्रीअनिरुद्धमुनिपाण्‍डेय ''आर्त'' ग्रामसंकीर्तनमण्‍डलस्‍य

आर्तसंकीर्तनमण्‍डलस्‍य फागगानम् (सरजूतट पावन पुण्‍य धाम आश्रम श्रृंगीऋषि प्‍यारा)


फगुआसम्राट स्‍व. श्रीरामराज जी की मण्‍डली द्वारा प्रस्‍तुत फागगान का दुर्लभ वीडियो ।।


इति

अकथितं च - द्वितीया विभक्ति:

चित्र
अपादानादिकारकै: अविवक्षितम् अकथितमिति कथ्‍यते । इत्‍युक्‍ते यत्र अपादानादिकारकाणाम् अर्थ: व्‍युत्‍पद्यमान: सन्‍नपि कर्तारं तस्‍य प्रयोग: अभीष्‍ट: न भवतु तत अ‍कथितम् इति कथ्‍यते ।
एतेषां अकथितधातूनां संख्‍या 16 अस्ति । एतेषां समानार्थिशब्‍दानामपि अकथितसंज्ञा एव भवति, तै: सह चापि कर्मकारकत्‍वं विधीयते ।

दुह्याच्पच्दण्‍डरुधिप्रच्छिचिब्रूशासुजिमथ् मुषाम्

कर्मयुक् स्‍यादकथितं तथा स्‍यान्‍नीहृकृष्‍वहाम् ।। 

एतदनुसारम् एते 16 धातव: सन्ति -

दुह् याच् पच् दण्‍ड् रुधि प्रच्‍छ् चि ब्रू शास् जी मथ् मुष् नी हृ कृष् वह् 

इति

तथायुक्‍तं चानीप्सितं - द्वितीयाविभक्ति: ।

चित्र
तथायुक्‍तं चानीप्सितम्  कर्तु: अभीप्सितपदार्थेन सह येषां सामीप्‍यं सर्वाधिकं भवतु तेषु अपि कर्मकारकम् एव भवति । अर्थात् कर्तु: यदभीप्सितकर्म भवति तेन सह सामीप्‍यभावेन यत् पदार्थं तिष्‍ठति तेन सह अपि कर्मव्‍यवहार: एव भवति ।
यथा - ग्रामं गच्‍छन् तृणं स्‍पृशति ।     अत्र ग्राम शब्‍दे तु कर्मत्‍वम् अस्ति कर्तुरभीप्सितत्‍वात् किन्‍तु तृणस्‍पर्शनं तु अभीप्सितं नैव तथापि तत्रापि कर्मत्‍वं भवति कर्मेण सह सामीप्‍यकारणात् ।
इतोपि
ओदनं भुंजानो विषं भुंक्‍ते ।      अत्र ओदनं तु भोक्‍तुं कर्तु: इच्‍छा अस्ति अत: तत्र कर्मकारकं भवति, किन्‍तु विषं कस्‍य प्रियं । तथापि विषशब्‍दे अपि कर्मकारकत्‍वम् एव तस्‍य ओदनेन सह समीपत्‍वात् । 
इति

द्वितीया विभक्ति: - कर्मकारकम्

चित्र
कारके अधिकारसूत्र: अयं । अस्‍य अधिकार: इत: परम् अग्रसूत्रेषु भविष्‍यति । कर्तुरीप्सिततमं कर्म वाक्‍ये प्रयुक्‍तकिययाकर्तु: सर्वाधिकम् अभीप्सितं (अभीष्‍टं) कर्म इति कथ्‍यते । इत्‍युक्‍ते कर्ता स्‍वक्रियया यं सर्वाधिकम् इच्‍छति तत् कर्म इति कथ्‍यते ।

यथा - राम: गृहं गच्‍छति ।  प्रस्‍तुतोदाहरणे गमनक्रियया 'रामं' (कर्तारं) 'गृहं' सर्वाधिकम् अभीष्‍टम् अस्ति अत: गृह शब्‍दे कर्मकारकम् अभवत् । इत्‍युक्‍ते राम: (कर्ता)गमन (क्रियया) सर्वाधिकं गृहं इच्‍छति अत: गृह  शब्‍दे कर्मकारकम् ।

इति

सम्‍बोधने च - प्रथमाविभक्ति: ।

चित्र
सम्‍बोधने च 

सम्‍बोधने अपि प्रथमा विभक्ति: एव प्रयुज्‍यते । हिन्‍दीभाषायां सम्‍बोधनस्‍यापि पृथकत्‍वं गृह्यते किन्‍तु सम्‍बोधने प्रथमाविभक्‍ते: एव प्रयोगस्‍य भवति अत: सम्‍बोधनं तु प्रथमा एव ।

यथा - 

प्रथमाविभक्‍तौ -  राम: रामौ रामा: 
सम्‍बोधने -  हे राम !, हे रामौ !, हे रामा: !  

अत्र केवलं सम्‍बोधनचिह्नं प्रयुज्‍यते पुनश्‍च एकवचनस्‍य विसर्गस्‍य लोप: भवति ।

इति

प्रथमा विभक्तिः

चित्र
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।

प्रातिपदिकस्य अर्थावबोधनार्थं प्रथमा विभक्ति: - राम:, कृष्ण: आदिलिङ्गबोधनार्थं - तट:, तटी, तटम् ।परिमाणबोधनार्थं - द्रोणो ब्रीहि: ।वचनबोधनाय - एकं, द्वे आदि । बोधनाय प्रथमा विभक्ते: प्रयोग: क्रियते ।


इति

संस्कृतवाक्यनिर्माणप्रक्रिया ।।

चित्र
संस्कृतभाषायां वाक्यं निर्मातुं सर्वतो पूर्वं कालज्ञानं भवेत् । तदनन्तरं लिंगज्ञानं, वचनज्ञानं, पुरुषज्ञानं च भवेत् ।
यस्य कालस्य, यस्य वचनस्य, यस्य पुरुषस्य लिंगस्य च कर्ता भवति तस्यैव कालस्य, वचनस्य, पुरुषस्य, लिंगस्य च क्रिया अपि भवति ।

 पुनश्च इदमवधेयं -
यल्लिंगं यद्वचनं या च विभक्ति: विशेषणस्य
तल्लिंगं तद्वचनं सा च विभक्ति: विशेष्यस्य ।।
अर्थात् -
 यस्य वचनस्य, यस्य लिंगस्य, विभक्ते: च प्रयोग: विशेषणे तस्यैव वचनस्य, लिंगस्य च प्रयोग: विशेष्ये अपि भवति ।

एतेषां विस्तृत चर्चा अग्रे कुर्म: ।।

इति