संदेश

April, 2015 की पोस्ट दिखाई जा रही हैं

अधिपरी अनर्थकौ - द्वितीया विभक्ति:

चित्र
अधिपरी अनर्थकौ      अधि, परि चोभयो: उपसर्गयो: प्रयोग: यदि कश्मिश्चित् विशिष्‍टार्थे न भवति चेत् उभयो: कर्मप्रवचनीयत्‍वं भवति । उदाहरणम् - कुतो अध्‍यागच्‍छति ।     अत्र अधि उपसर्गस्‍य प्रयोगाय नास्ति किमपि विशिष्‍टप्रयोजनम् । अत: अधि उपसर्ग: कर्मप्रवचनीयसंज्ञक: अस्ति ।
इति

अभिरभागे - द्वितीया विभक्ति:

चित्र
अभिरभागे - द्वितीया विभक्ति:
भाग अर्थस्‍यातिरिक्‍तं शेष त्रिषु अपि (लक्षणं, इत्‍थंभूताख्‍यानं, वीप्‍सा) अर्थेषु वर्तमानस्‍य ''अभि'' उपसर्गस्‍य कर्मप्रवचनीय संज्ञा भवति ।
उदाहरणम् -
देवं देवम् अभिसिंचति  । हरिमभिवर्तते । भक्‍तो हरिमभि । अत्र क्रमश: वीप्‍सा, लक्षणं, इत्‍थंभूताख्‍यानस्‍य च अर्थे अभि योगे कर्मप्रवचनीयसंज्ञा सन् 'हरिम्' पदे द्वितीया विभक्ति: अ‍भवत् ।

इति

लक्षणेत्‍थम्‍भूताख्‍यान.... - कर्मप्रवचनीयसंज्ञा

चित्र
लक्षणेत्‍थम्‍भूताख्‍यान भागवीप्‍सासु प्रतिपर्यनव: ।

लक्षण, इत्‍थंभूताख्‍यान, भाग, वीप्‍सा अर्थेषु प्रति, परि, अनु उपसर्गाणां च कर्मप्रवचनीयसंज्ञा भवति ।

उदाहरणम् -

प्रासादं प्रति विद्योतते विद्युत्
लतां लतां प्रति सिंचति ।

इति

उपोSधिके च - प्रवचनीयसंज्ञा - द्वितीया विभक्ति:

चित्र
उपोSधिके च

     हीनतार्थस्‍य द्योतने 'उप' उपसर्गस्‍य कर्मप्रवचनीय संज्ञा तदनुसारं द्वितीया विभक्ति: भवति ।

यथा -

उप हरिम् सुरा:

     अत्र हीनताद्योतने उप उपसर्गस्‍य कर्मप्रवचनीयसंज्ञा अभवत् तेन हरिशब्‍दे द्वितीयाविधानं जातम् ।


इति

हीने - कर्मप्रवचनीयसंज्ञा - द्वितीया विभक्ति:

चित्र
हीने

हीनत्‍वद्योतने 'अनु' उपसर्गस्‍य कर्मप्रवचनीयसंज्ञा तेन च कर्मत्‍वं (द्वितीया विभक्ति:) भवति ।

उदाहरणम् -

अनु हरिं सुरा: ।

अत्र हीनताद्योतने अनु इत्‍यस्‍य कर्मप्रवचनीय संज्ञा अभवत् तेन हरिशब्‍दे द्वितीया विभक्ति: अभवत् ।


इति

तृतीयार्थे - कर्मप्रवचनीय संज्ञा, द्वितीया विभक्ति:

चित्र
तृतीयार्थे ।

तृतीया अर्थज्ञापक: 'अनु' उपसर्ग: कर्मप्रवचनीयसंज्ञक: भवति । अर्थात् कर्मप्रवचनीय 'अनु' उपसर्गस्‍य प्रयोग: सन् तृतीया अर्थज्ञापक: शब्‍द: द्वितीयाविभक्‍तौ भविष्‍यति न तु तृतीया ।

उदाहरणम् -

नदीमन्‍ववसिता सेना ।

अस्मिन् उदाहरणे नदीशब्‍देन सह तृतीय भवेत्, किन्‍तु अत्र अनु उपसर्गस्‍य कर्मप्रवचनीय संज्ञा अस्ति उपर्युक्‍तेन सूत्रेण, चेत् नदीशब्‍दे द्वितीयाप्रयोग: क्रियते न तु तृतीया ।


इति

कर्मप्रवचनीय संज्ञा - उपपद द्वितीया विभक्ति: ।

चित्र
कर्मप्रवचनीय युक्‍ते द्वितीया ।

कर्मप्रवचनीय-उपसर्गानां प्रयोगे अपि द्वितीया विभक्ति: भवति ।

उदाहरणम -

पर्जन्‍य: जपम् अनु प्रावर्षत ।

'अनु' उपसर्गस्‍य कर्मप्रवचनीयसंज्ञा सन् एव 'जप' इत्‍यनेन सह 'अनु' इत्‍यस्‍य योगत्‍वात् द्वितीया विभक्तिरभव‍त् ।


इति

अन्‍तरान्‍तरेण ..... - उपपद द्वितीया विभक्ति:

चित्र
अन्‍तरान्‍तरेण युक्‍ते ।

अन्‍तरा, अन्‍तरेण शब्‍दयो: योगे अपि द्वितीया विभक्ति: प्रयुज्‍यते ।

उदाहरणम -

अन्‍तरा त्‍वां मां हरि: ।
अन्‍तरेण हरिं न सुखम् ।
इति

अभित: परित: .... - उपपद द्वितीया विभक्ति:

चित्र
अभित: परित: समया निकषा हा प्रतियोगेSपि 
अभित:, परित:, समया, निकषा, हा, प्रति च शब्‍दानां योगे द्वितीया विभक्ति: भवति ।

उदाहरणम -
अभित: कृष्‍णम् ।
निकषा लंकाम् ।।

इति

उभसर्वतसो: .... - उपपद द्वितीया विभक्ति:

चित्र
उभसर्वतसो: कार्याधिगुपर्यादिषु त्रिषु । द्वितीयाSम्रेडितान्‍तेषु ततोSन्‍यत्रापि दृश्‍यते ।।
तसिल् प्रत्‍ययान्‍त उभ, सर्व शब्‍दयो: च योगे द्वितीया विभक्ति: कुर्यात् । धिक्, उपरि (उपरिर्युपरि, अध्‍याधि, अधोSध:) योगेSपि द्वितीया एव भवति । एतेषामतिरिक्‍तमपि द्वितीयाप्रयोगं दृश्‍यते ।

उदाहरणम् -

उभयत: कृष्‍णं गोपा: ।


इति

अभुक्‍त्‍यर्थस्‍य न (वार्तिकम्) - द्वितीया विभक्ति:

चित्र
अभुक्‍त्‍यर्थस्‍य न (वार्तिकम्)

यदा उपवस् इत्‍यस्‍य उपवास(व्रत)विशेषार्थे प्रयोग: भवति न तु केवलं अभुक्‍तार्थे चेत् अपि आधारे सप्‍तमी एव भवति द्वितीया न ।

उदाहरणम् -
मंगलवासरे उपवसति ।
मंगलवार को उपवास रखता है ।


इति

उपान्‍वध्‍याड्.वस: - द्वितीया विभक्ति:

चित्र
उपान्‍वध्‍याड्.वस:

उप, अनु, अधि, आ उपसर्गपूर्वकं वस् धातो: योगे आधारस्‍य कर्मसंज्ञा भवति ।

उदाहरणम् -

उपवसति वैकुण्‍ठं हरि: ।।
आवसति वैकुण्‍ठं हरि: ।।
अधिवसति वैकुण्‍ठं हरि: ।।
अनुवसति वैकुण्‍ठं हरि: ।।

    अत्र वस् धातो: योगे सर्वत्र आधारस्‍य कर्मसंज्ञा अभवत् । यदि अत्र एते उपसर्गा: न प्रयु‍ज्‍यन्‍ते चेत् आधारे सप्‍तमी एव भवति ।

यथा - वसति वैकुण्‍ठे हरि: ।


इति