संदेश

May, 2015 की पोस्ट दिखाई जा रही हैं

संज्ञोSन्‍यतरस्‍यां..... - तृतीयाविभक्ति: ।।

चित्र
संज्ञोSन्‍यतरस्‍यां कर्मणि

सम् उपसर्गपूर्वकं 'ज्ञा' धातो: योगे कर्मण: विकल्‍पेन करणसंज्ञा भवति ।

यथा -
पित्रा पितरं वा संजानीते ।

इति

करणकारकम् - तृतीयाविभक्ति: ।।

चित्र
साधकतमं करणम् -
स्‍वकार्यसिद्ध्यर्थं कर्ता यस्‍य सर्वाधिकं सहायतामपेक्षते तत् करणमिति कथ्‍यते ।

कर्तृकरणयोस्‍तृतीया
अनुक्‍ते कर्तरि (कर्मवाच्‍ये भाववाच्‍ये च कर्ता अनुक्‍त: भवति) , करणकारके च तृतीया विभक्ति: भवति ।

उदाहरणम् -
रामेण रावण: हत: । (कर्मवाच्यम्)
मया जीव्‍यते । (भाववाच्‍यम्)
राम: रावणं हतवान् । (करणम्)

इति

द्वितीया विभक्ति: II

चित्र

कालाध्‍वनोरत्‍यन्‍त संयोगे - द्वितीया विभक्ति:

चित्र
कालाध्‍वनोरत्‍यन्‍त संयोगे

अत्‍यन्‍तं सामीप्‍यं सन्तं कालस्‍य, गन्‍तव्‍यमार्ग-बोधकश‍ब्‍दस्‍य च द्वितीया विभक्ति: भवति ।

उदाहरणम् -
मासं कल्‍याणी ।
क्रोशं गिर: ।
मासमधीते ।
क्रोशं कुटिला नदी ।
उक्‍तवाक्‍येषु मास, क्रोश च शब्‍दयो: द्वितीया विभक्ति: उक्‍तसूत्रेण अभवत् ।
इति

अपि: पदार्थ सम्‍भावना.....- द्वितीया विभक्ति: II

चित्र
अपि: पदार्थ सम्‍भावनाSन्‍ववसर्गागर्हासमुच्‍चयेषु
पदार्थ, सम्‍भावना, अन्‍ववसर्ग, गर्हा, समुच्‍चय च अर्थेषु अपि शब्‍दप्रयोगे सति 'अपि' शब्‍दस्‍य कर्मप्रवचनीय संज्ञा भवति ।

उदाहरणम्
पदार्थ - सर्पिषोSपि स्‍यात् । 
सम्‍भावना - अपि स्‍तुयात् विष्‍णुम्
अन्‍ववसर्ग - अपि स्‍तुहि
गर्हा - धिक् देवदत्‍तम्
समुच्‍चय - अपि सिंच ।
उपर्युक्‍तेषु उदाहरणेषु अपि शब्‍दस्‍य कर्मप्रवचनीयसंज्ञत्‍वात् द्वितीया विभक्ति: ।


इति

सु पूजायाम् - द्वितीया विभक्ति:

चित्र
सु पूजायाम्


पूजार्थे वर्तमानस्‍य सु उपसर्गस्‍य कर्मप्रवचनीयसंज्ञा भवति ।

उदाहरणम् - 
सुसिक्‍तम् ।


अति‍रतिक्रमणे च

अतिक्रमणार्थे, पूजार्थे च 'अति' शब्‍दस्‍य कर्मप्रवचनीयसंज्ञा भवति ।

उदाहरणम् -

अति देवान् कृष्‍ण: ।

 इति