संदेश

August, 2015 की पोस्ट दिखाई जा रही हैं

चतुर्थी विभक्ति: - सम्‍प्रदानकारकम् ।।

चित्र
सूत्रम् -  कर्मणा यमभिप्रैति स सम्‍प्रदानम् ।

दानकर्मणा कर्ता यं सर्वाधिकं इच्‍छति अर्थात् दानकर्मणा यस्‍मै सन्‍तोषं दातुमिच्‍छति तत् पदार्थं सम्‍प्रदानमिति कथ्‍यते ।

उदाहरणम् -
विप्राय गां ददाति ।

टिप्‍पणं - विशेषक्रियया अपि योभिप्रैत: सोपि सम्‍प्रदानमेव । यथा - पत्ये शेते (पति के लिये सोती है) । अत्र 'पति' शब्‍दे सम्‍प्रदानं क्रियाविशेषत्‍वात् ।

सूत्रम् - चतुर्थी सम्‍प्रदाने ।
वृत्ति: - अनभिहिते सम्‍प्रदाने चर्तु‍थी स्‍यात् ।

अनुक्‍तसम्‍प्रदानकारके चतुर्थी विभक्ति: प्रयुज्‍यते ।

उदाहरणम् -
ब्राह्मणाय गां ददाति ।
मह्यं पुस्‍तकं देहि ।

इति

तृतीया विभक्ति: ।।

चित्र

यजे: कर्मण: करणसंज्ञा ... तृतीया विभक्ति: ।।

चित्र
यजे: कर्मण: करणसंज्ञा सम्‍प्रदानस्‍य च कर्मसंज्ञा (वार्तिकम्) 

    यज् धातो: कर्मण: करणसंज्ञा भवति, तस्‍य सम्‍प्रदानस्‍य कर्मसंज्ञा च भवति ।

उदाहरणम् -

पशुना रुद्रं यजते ।



इति

तुल्‍यार्थेरतुलोपमाभ्‍यां तृतीया...... तृतीया विभक्ति: ।।

चित्र
सूत्रम् - तुल्‍यार्थेरतुलोपमाभ्‍यां तृतीयाSन्‍यतरस्‍याम्

    'तुला', 'उपमा' शब्‍दयोरतिरिक्‍तं सर्वै: तुल्‍यार्थप्रदायकै: (समान, बराबर) शब्‍दै: सह तृतीया, षष्‍ठी वा विभक्तिप्रयोग: भवति ।

उदाहरणम्
कृष्‍णस्‍य, कृष्‍णेन वा तुल्‍य:, समो, समानं, सदृशं वा ।
दुर्योधनो भीमेन भीमस्‍य वा तुल्‍यो बलवान् नासीत् ।
अयं मया मम वा पराक्रमं न विभर्ति ।

किन्‍तु तुला, उपमा च शब्‍दयो: सह केवलं षष्‍ठी विभक्ति: एव भवति ।

उदाहरणम्
तुला, उपमा वा कृष्‍णस्‍य नास्ति । 


इति

पृथग्विनानाभिस्‍तृतीया.... तृतीया विभक्ति: ।।

चित्र
सूत्रम् - पृथग्विनानाभिस्‍तृतीयाSन्‍यतरस्‍याम् ।

   पृथक्, विना, नाना शब्‍दानां योगे तृतीया, द्वितीया, पंचमी च विभक्ति: भवति । एतेषु केषांचिदपि प्रयोग: सम्‍यक् भवति ।

उदाहरणम्
रामं, रामेण, रामात् विना वा दशरथो न जीवति ।
जलं, जलेन, जलात् विना वा कमलं स्‍थातुं न शक्‍नोति । 

इति