संदेश

September, 2015 की पोस्ट दिखाई जा रही हैं

स्‍पृहेरीप्सित: - चतुर्थी विभक्ति: ।।

चित्र
स्‍पृहेरीप्सित: ।।

'स्‍पृह' (चाहना) धातो: योगे ईप्सितस्‍य पदार्थस्‍य सम्‍प्रदानसंज्ञा भवति ।

उदाहरणम् - 

पुष्‍पेभ्‍य: स्‍पृहति ।

हिन्‍दी - 

'स्‍पृह' (चाहना) धातु के योग में ईप्सित (प्रिय) पदार्थ  सम्‍प्रदानसंज्ञक होता है तथा उसमें चतुर्थी विभक्ति होती है ।

इति

धारेरुत्‍तमर्ण: - चतुर्थी विभक्ति: ।।

चित्र
धारेरुत्‍तमर्ण: - 

'धारि' (ऋण लेना) धातो: योगे 'उत्‍तमर्ण:' (ऋण देने वाला) सम्‍प्रदानकारक: भवति चेत् चतुर्थी विभक्ति: उपयुज्‍यते ।

उदाहरणम् - 

हरि: भक्‍ताय मोक्षं धारयति ।
राम: मोहनाय शतं धारयति ।

हिन्‍दी - 

'धारि' (ऋण लेना) धातु के योग में उत्‍तमर्ण अर्थात् कर्ज देने वाला सम्‍प्रदान संज्ञक होता है तदनुसार उसमें चतुर्थी विभक्ति प्रयुक्‍त होती है ।

इति

श्‍लाघह्नुड.स्‍थाशपां ..... - चतुर्थी विभक्ति: ।।

चित्र
श्‍लाघह्नुड.स्‍थाशपां ज्ञीप्‍स्यमान: ।

श्‍लाघ् (प्रशंसा), ह्नुड्. (छिपाना), ष्‍ठा (ठहरना), शप् (उलाहना देना) च क्रियानां योगे यत्र अभीष्‍टवाचनं स्‍यात् तत्र सम्‍प्रदानसंज्ञा भवेत् ।

उदाहरणम् - 

गोपी स्‍मरात् कृष्‍णाय श्‍लाघते, हनुते, तिष्‍ठते, शपते वा ।

हिन्‍दी - 

श्‍लाघ् (प्रशंसा), ह्नुड्. (छिपाना), ष्‍ठा (ठहरना), शप् (उलाहना देना) क्रियाओं के योग में जहां अभीष्‍ट बतलाना हो वहां सम्‍प्रदान संज्ञा होती है ।


इति

हिन्‍दीसप्‍ताहावसरे संस्‍कृतजगति लेखानां हिन्‍दी-अनुवाद: ।।

चित्र
बान्‍धव:
     हिन्‍दीसप्‍ताहावसरे अस्‍माभि: एकं नूतनं संकल्‍पं स्‍वीकृतमस्ति । सम्‍प्रति सम्‍पूर्णे विश्‍वे हिन्‍दीभाषाया: प्रचारप्रसारकार्याय जना: संलग्‍ना: सन्ति । अस्‍माकं माननीयप्रधानमन्‍त्रीमहोदय: अपि सम्‍प्रति अस्मिन् एव कार्ये संलग्‍न: अस्ति । चेत् सम्‍प्रति संस्‍कृतजगत् अपि हिन्‍दीभाषाया: प्रचारकार्ये नूतनविधिना प्रयतिष्‍यति ।
     सम्‍प्रति अस्‍माकं संस्‍कृतलेखानां हिन्‍दीअनुवाद: अध: दास्‍यते । अनेन जनानां सहायता अपि भविष्‍यति । ये संस्‍कृतं न जानन्ति तेषां सारल्‍यं अपि भविष्‍यति पुनश्‍च हिन्‍दीभाषाया: संस्‍कृतेन सहैव सेवा अपि भविष्‍यति ।
     अस्‍तु चेत् अद्यारभ्‍यैव ये लेखा: अत्र लिख्‍यन्‍ते तेषाम‍नुवाद: हिन्‍दीभाषायां अत्रैव दास्‍यते ।

मित्रों
     हिन्‍दीसप्‍ताह के अवसर पर हमने एक नूतन संकल्‍प लिया है । इस समय सम्‍पूर्ण विश्‍व में हिन्‍दीभाषा के प्रचार में लोग लगे हुए हैं । हमारे माननीय प्रधानमन्‍त्री भी हिन्‍दीभाषा के प्रचार में निरत हैं अत: संस्‍कृतजगत् भी हिन्‍दी भाषा के प्रचारकार्य में अपने तरीके से सहयोग करने के लिये प्रतिबद्ध है ।
     अब हमारे समस्‍त संस्‍कृतलेखों…

रुच्‍यार्थानां प्रीयमाण: - चतुर्थी विभक्ति: ।।

चित्र
रुच्‍यार्थानां प्रीयमाण:

     रुच् धातु: अस्‍यार्थजनकधातूनां च योगे प्रीयमाणस्‍य (यस्‍याय रोचते) सम्‍प्रदानसंज्ञा भवति तत्र च चतुर्थीविभक्तिप्रयोग: क्रियते ।

यथा -

हरये रोचते भक्ति: ।
देवदत्‍ताय मोदकं रोचते ।
मह्यम् संगणकम् रोचते ।

इति

यजे: कर्मण: करणसंज्ञा.... - चतुर्थी विभक्ति: ।।

चित्र
यजे: कर्मण: करणसंज्ञा सम्‍प्रदानस्‍य च कर्मसंज्ञा

   यज् धातुप्रयोगे एकस्मिन् वाक्‍ये एव यदि कर्म, सम्‍प्रदान उभौ च भवत: चेत् कर्मण: करणसंज्ञा भवति, सम्‍प्रदानस्‍य च करणसंज्ञा इति भवति ।

यथा -

पशुना रुद्रं यजते ।


इति