आधारोSधिकरणम् 。。。सप्तमी विभक्तिः ।।


सूत्रम् – आधारोSधिकरणम् ।। १⁄४⁄४५ ।।
कर्तुः कर्मणः च सम्बद्ध–क्रियायाः आधारः अधिकरणम् इति उच्यते । अधिकरणं साक्षात् क्रियायाः आधारः न भवति अपितु कर्त्रा‚ कर्मणा च भवति । सरलरूपेण वदामः चेत् क्रियायाः आधारः अधिकरणम् उच्यते ।


हिन्दी – 
 कर्ता और कर्म से सम्बद्ध क्रिया के आधार को अधिकरण कहते हैं । अधिकरण साक्षात् क्रिया का आधार नहीं होता अपितु कर्ता और कर्म के द्वारा क्रिया का आधार होता है ।


सूत्रम् – सप्तम्यधिकरणे च ।। २⁄३⁄३६ ।।
अधिकरणे सप्तमी भवति । च इति शब्देन दूरवाची‚ निकटवाची च शब्दयोः अपि सप्तमी विभक्तिः भवति ।

औपश्लेषिको वैषयिकोSभिव्यापकश्चेत्याधारसि्त्रधा – 

आधारः त्रिधा भवति ।
१– औपश्लेषिक आधारः (संयोग–सम्बन्ध–मूलक–आधारः) – उपश्लेषः इत्युक्ते संयोगसम्बन्धः । औपश्लेषिक इत्युक्ते यत्र कर्ता उत कर्म संयोग सम्बन्धेन आधारे तिष्ठन्ति ।

उदाहरणम् – 
कटे आस्ते – चटाई पर बैठता है ।उपविश्यमाणस्य कर्तुः कटेन सह संयोग सम्बन्धः अति ।

२– वैषयिक आधारः – ( विषयेन सह सम्बद्धः आधारः ) – अस्मिन् आधारेण सह आधेयस्य बौद्धिकसम्बन्धः भवति ।

उदाहरणम् – 
मोक्षे इच्छा अस्ति ।
अस्मिन् मोक्षरूपी आधारेण सह बौद्धिक सम्बन्धः विद्यते ।

३– अभिव्यापक आधारः ( सर्वेषु अवयवेषु व्याप्तः आधारः ) – अस्मिन् आधार–आधेययोः व्याप्य–व्यापक सम्बन्धः भवति ।

उदाहरणम् – 
सर्वस्मिन् आत्मा अस्ति ।

हिन्दी –
अधिकरण में सप्तमी विभक्ति होती है । अाधार तीन प्रकार का होता है । औपश्‍लेषिक आधार, वैषयिक आधार तथा अभिव्‍यापक आधार । औपश्‍लेषिक आधार में आधार और आधेय के मध्‍य संयोग सम्‍बन्‍ध होता है अर्थात् आधार से आधेय साक्षात् जुडा हुआ होता है । वै‍षयिक आधार में आधार से आधेय बौद्धिक रूप से जुडा हुआ होता है । तथा अभिव्‍यापक आधार में आधार और आधेय के बीच व्‍याप्‍य-व्‍यापक सम्‍बन्‍ध होता है ।


इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

अव्यय पदानि ।।

शरीरस्‍य अंगानि

क्रीड् (खेलना) धातु: - परस्‍मैपदी