संदेश

July, 2017 की पोस्ट दिखाई जा रही हैं

रामौ (प्रथमा विभक्ति:, द्विवचनम्) - रूपसिद्धि: ।।

चित्र
रम् + घञ् = राम ।।
रम् धातुना स‍ह कृदन्‍त-घञ् प्रत्‍ययं संयोज्‍य राम-प्रातिपदिकशब्‍द:।
(रम् धातु से कृदन्‍त घञ् प्रत्‍यय लगाकर राम शब्‍द की निष्‍पत्ति)

राम =
अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम़्, कृत्तद्धितसमासाश्‍च सूत्राभ्‍यां रामशब्‍दस्‍य प्रातिपदिकसंज्ञा । 
स्‍वौजस्मौट्. सूत्रेण सुपविधानम् । ड्.याप्‍प्रातिपदिकात्, प्रत्‍यय:, परश्‍च सूत्रेभ्‍य: सुप् प्रत्‍ययविधानं प्रातिपदिकात् अनन्‍तरम् । 
द्वयेकयोर्द्विवचनैकवचने सूत्रेण प्रथमा-द्विवचनस्‍य विवक्षायां सुप् प्रत्‍ययात् प्रथमाद्विवचनं औ प्रत्‍यययोजनम् ।
(अर्थवद. तथा कृत्‍तद्धित. सूत्रों से राम की प्रातिपदिक संज्ञा ।  स्‍वौजस. सूत्र से राम प्रातिपदिक के साथ सुप् विधान । ड्.याप्‍प्रातिपदिकात्, प्रत्‍यय:, परश्‍च सूत्रों के द्वारा प्रातिपदिक के बाद सुप् प्रत्‍यय विधान । द्वयेकयो. सूत्र से प्रथमा द्विवचन की विवक्षा में सुप् प्रत्‍ययों में से प्रथमा द्विवचन औ प्रत्‍यय का विधान)


राम + औ =
प्रथमयो: पूर्वसवर्ण: सूत्रेण अ, औ इत्‍ययो: स्‍थाने पूर्वसवर्णदीर्घ-एकादेश: । किन्‍तु नादिचि सूत्रेण अस्‍य पूर्वसवर्णदीर्घ-एकादेशस्‍य बाध: । वृद्धिरेचि सूत्रेण अ…

सरूपाणामेकशेष एकविभक्‍तौ - अजन्‍तपुलिंगप्रकरणम् ।।

चित्र
सूत्रम् - 
1- सरूपाणामेकशेष एकविभक्‍तौ   ।।01/02/64।।
2- प्रथमयो: पूर्वसवर्ण:            ।।06/01/102।।
3- नादिचि                   ।।06/01/104।।

व्‍याख्‍या - 
- एका विभिक्ति: अनन्‍तरं भवतु चेत् समानरूपशब्‍देषु एकं विहाय अन्‍येषां शब्‍दानां लोप: भव‍ति ।

- अक् (अ, इ, उ, ऋ, लृ) इत्‍यस्‍य अनन्‍तरं प्रथमा, द्वितीया वा च विभक्‍तयो: अच् (स्‍वर) भवतु चेत् द्वयो: स्‍थाने पूर्वसवर्णदीर्घ-एकादेश: भवति ।

- अ वर्णस्‍य अनन्‍तरं इच् (इ, उ, ऋ, लृ, ऐ, ओ, ऐ, औ) वर्णानां पूर्वसवर्णदीर्घ-आदेश: न भवति ।


हिन्‍दी - 
- एक विभक्ति बाद में हो तो समान रूप वाले शब्‍दों में से केवल एक ही शब्‍द शेष रहता है बाकी अन्‍य समान शब्‍दों का लोप हो जाता है ।

- अक् वर्णों के बाद प्रथमा और द्वितीया का कोई भी स्‍वर हो तो उसे पूर्वसवर्णदीर्घ एकादेश हो जाता है ।

- अ वर्ण के बाद इच् (इ, उ, ऋ, लृ, ए, ओ, ऐ, औ) वर्ण हों तो पूर्वसवर्णदीर्घ एकादेश्‍ा नहीं होता है ।

इति

तस्‍य लोप: - अजन्‍तपुलिंगप्रकरणम् ।।

चित्र
सूत्रम्- 
1- अदर्शनं लोप: ।।01/01/60।।
2- तस्‍य लोप:    ।।01/03/09।।

व्‍याख्‍या - 
- कस्‍यचिदपि प्राप्‍तवर्णस्‍य अश्रवणम्, अदर्शनं वा लोपसंज्ञक: भवति । इत्‍युक्‍ते यस्‍य वर्णस्‍य प्राप्ति: सत्‍यपि दर्शनं श्रवणं वा च न भवति तस्‍य वर्णस्‍य संज्ञा 'लोप' इति भवति ।।

- येषां वर्णानां इत् संज्ञा भवति तेषां लोप: भवतु । अर्थात् तेषां अदर्शनं, अश्रवणं वा च भव‍तु ।।

हिन्‍दी - 
- किसी भी प्राप्‍त वर्ण का सुनाई न देना अथवा दिखाई न देना लोप कहलाता है ।

- जिन वर्णों की इत् संज्ञा होती है उनका लोप हो जाता है । अर्थात् वे वर्ण अपनी  जगह पर विद्यमान होते हुए भी दिखाई या सुनाई नहीं देते हैं ।

इति

उपदेशेSजनुनासिक इत् - अजन्‍तपुलिंगप्रकरणम् ।।

चित्र
सूत्रम् - 
उपदेशेSजनुनासिक इत् ।।01/03/02।।

व्‍याख्‍या -
उपदेशस्‍यावस्‍थायाम् अच् (स्‍वर) अनुनासिकानाम् इत् संज्ञा भवति ।

हिन्‍दी - 
उपदेश की अवस्‍था में अच् (अ, इ, उ, ऋ, लृ, ए, ओ, ऐ, औ) अनुनासिकों की इत् संज्ञा होती है ।

इति

राम: (प्रथमा विभक्ति:, एकवचनम्) - रूपसिद्धि: ।।

चित्र
रम् + घञ् = राम ।।
रम् धातुना स‍ह कृदन्‍त-घञ् प्रत्‍ययं संयोज्‍य राम-प्रातिपदिकशब्‍द:।
(रम् धातु से कृदन्‍त घञ् प्रत्‍यय लगाकर राम शब्‍द की निष्‍पत्ति)

राम + सु =
अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम़्, कृत्तद्धितसमासाश्‍च सूत्राभ्‍यां रामशब्‍दस्‍य प्रातिपदिकसंज्ञा । स्‍वौजस्मौट्. सूत्रेण सुपविधानम् । ड्.याप्‍प्रातिपदिकात्, प्रत्‍यय:, परश्‍च सूत्रेभ्‍य: सुप् प्रत्‍ययविधानं प्रातिपदिकात् अनन्‍तरम् । द्वयेकयो. सूत्रेण प्रथमा-एकवचनस्‍य विवक्षायां सुप् प्रत्‍ययात् प्रथमाएकवचनं सु प्रत्‍यययोजनम् ।
(अर्थवद. तथा कृत्‍तद्धित. सूत्रों से राम की प्रातिपदिक संज्ञा ।  स्‍वौजस. सूत्र से राम प्रातिपदिक के साथ सुप् विधान । ड्.याप्‍प्रातिपदिकात्, प्रत्‍यय:, परश्‍च सूत्रों के द्वारा प्रातिपदिक के बाद सुप् प्रत्‍यय विधान । द्वयेकयो. सूत्र से प्रथमा एकवचन की विवक्षा में सुप् प्रत्‍ययों में से प्रथमा एकवचन सु प्रत्‍यय का विधान)


राम + स् =
उपदेशे जनुनासिक इत् सूत्रेण सुप्रत्‍ययस्‍य उकारस्‍य इत् संज्ञा, तस्‍य लोप: सूत्रेण उकारस्‍य लोप: ।
(उपदेशे. सूत्र से सु के उकार की इत् संज्ञा तथा तस्‍य लोप: सूत्र से उकार का लो…

खरवसानयो.. - व्‍यंजनसन्धि: ।।

चित्र
सूत्रम्- 
खरवसानयोर्विसर्जनीय: ।।08/03/15।।
खरि अवसाने च पदान्‍तस्‍य रेफस्‍य विसर्ग: । 

व्‍याख्‍या - 
पदस्‍य अन्तिम 'र्'कारस्‍य अनन्‍तरं खर् (वर्गणां 1, 2, श, ष, स) वर्णा: भवन्‍तु अथवा अवसानं (किमपि न) भवतु चेत् 'र्'कारस्‍य विसर्ग: (:) भवति ।

हिन्‍दी - 
पद के अन्तिम र् से परे यदि खर् प्रत्‍याहार के वर्ण (वर्ग के प्रथम और द्वितीय अक्षर तथा स, श, ष) हों अथवा कि कुछ भी न हो तो 'र्'कार के स्‍थान पर विसर्ग (:) परिवर्तन होता है ।

वार्तिकम् - संपुकानां सो वक्‍तव्‍य: ।।

व्‍याख्‍या - सम्, पुम्, कान् च शब्‍दानां विसर्गस्‍य स्‍थाने 'स्'कार: भवति ।

उदाहरणम् - 
सम् + स्‍कर्ता = संस्‍स्‍कर्ता (सँस्‍स्‍कर्ता) ।।

हिन्‍दी - 
सम्, पुम् और कान् शब्‍दों के विसर्ग के स्‍थान पर 'स्'कार होता है ।

इति

ससजुषो रू: - विसर्गसन्धि: ।।

चित्र
सूत्रम् - 
ससजुषो रु: ।।08/02/66।।
पदान्‍तस्‍य सस्‍य सजुषश्‍च रु: स्‍यात् ।।

व्‍याख्‍या - 
पदस्‍य (सुबन्‍तं, तिड.न्‍तं च) अन्तिमस्‍य 'स्' कारस्‍य 'रु'त्‍वं भवति । 'सजुष्' इत्‍यस्‍य 'ष्' कारस्‍य अपि 'रु'त्‍वं भवति ।
अनन्‍तरं उकारस्‍य लोप: भूत्‍वा 'र्' अविशिष्‍यते ।

हिन्‍दी - 
पद के अन्तिम् 'स्'कार तथा 'सजुष्' शब्‍द के 'ष्'कार को 'रु' होता है । 'रु' के उकार की इत् संज्ञा तथा लोप होकर केवल 'र्' शेष बचता है ।


इति

आदिरन्त्येन सहेता ४, १।१।७०

लघु-सिद्धान्त-कौमुदी
आदिरन्त्येन सहेता ४, १।१।७०
अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥बाल-मनोरमा
आदिरन्त्येन सहेता ३, १।२।७१
नन्वस्तु हल्सूत्रे लकारस्य इत्संज्ञा। ततः किमित्यत आह--आदिरन्त्येन सहेता। अन्ते भवः अन्त्यः। तेन इता सहोच्चार्यमाणः आदिः अण्? अच् इत्यादिरूपः संज्ञेत्यर्थः। तत्र "यस्मात्पूर्वं नास्ति परमस्ति स आदिः, यस्मात्परं नास्ति पूर्वमस्ति सोऽन्तः" इति आद्यन्तवत्सूत्रे भाष्यम्। तदिहाद्यन्तशब्दाभ्यां मध्यगा आक्षिप्यन्ते। अतस्तेषां संज्ञेति लभ्यते। "स्वं रूपं"मिति पूर्वसूत्रात्स्वमित्यनुवर्तते। तच्च षष्टयन्ततया विपरिणम्यते। तदेतदाह--अन्त्येनेतेत्यादि। स्वस्य चेति। अत्र च स्वशब्देन संज्ञाकोटि प्रविष्ट आदिरेव परामृश्यते, नत्वन्त्योऽपि, अन्त्येनेति तृतीयया "सहयुक्तेऽप्रधाने" इति विहितया तस्य अप्राधान्यावगमात्, सर्वनाम्नां चोत्सर्गतः प्रधानपरामर्शित्वात्। न च इक्? उक् इच् यय् मयित्यादिप्रत्याहाराः कथं स्युः, इकारादीनामादित्वाऽभावादिति वाच्यं, न हि सूत्रापेक्षमिहादित्वं किंतु आद्यन…

द्वयेकयोद्विवचनैकवचने - अजन्‍तपुलिंगप्रकरणम् ।।

चित्र
सूत्रम् - 
1- द्वयेकयोद्विवचनैकवचने ।।01/04/22।।
2- विरामोSवसानम्  ।।01/04/110।।

व्‍याख्‍या - 
- एकवचनस्‍य अर्थज्ञापनाय एकवचनं, द्विवचनस्‍य अर्थज्ञापनाय द्विवचनम् इति प्रयुज्‍ज्‍यते । इत्‍युक्‍ते यत्र केवलं एकस्‍य एव वस्‍तो: तात्‍पर्यं बोधनीयं तत्र एकवचनस्‍य प्रयोग: अपि च यत्र वस्‍तुद्वयस्‍य बोध: कारणीय: तत्र द्विवचनप्रयोग: क्रियते ।

- अन्तिमस्‍य वर्णस्‍य 'विराम' संज्ञा भवति । अन्तिमवर्ण: इत्‍युक्‍ते यस्‍य परे अन्‍य: कोपि वर्ण: न भवतु । सर्वतो अन्तिम: वर्ण: विरामसंज्ञक: भवति ।

हिन्‍दी - 
1- एक वस्‍तु या तत्‍व का बोध कराने के लिये एकवचन का प्रयोग तथा दो वस्‍तु या तत्‍वों का बोध कराने के लिये द्विवचन का प्रयोग किया जाता है ।

2- अन्तिम वर्ण की विराम संज्ञा होती है तात्‍पर्य यह है कि जिस वर्ण के बाद कोई भी अन्‍य वर्ण न हो उसकी विराम संज्ञा होती है अथवा उसे विराम कहते हैं ।




विशेष - 
  संस्‍कृतं विहाय अन्‍याषु भाषासु केवलं वचनद्वयमेव भवति । एकवचनं, बहुवचनं च । किन्‍तु संस्‍कृतभाषायां तु एकम् इतोपि वचनं विद्यते तन्‍नाम द्विवचनम् । एकस्‍य तत्‍वस्‍य बोधनाय एकवचनं, द्वयो: तत्‍वयो: बोधनाय द्विवच…

ड्.याप्‍प्रातिपदिकात् - अजन्‍तपुलिंगप्रकरणम् ।।

चित्र
सूत्रम्-
1- ड्.याप्‍प्रातिपदिकात्  ।।04/01/01।।
2- प्रत्‍यय:        ।।03/01/01।।
3- परश्‍च          ।।03/01/02।।

व्‍याख्‍या - 
1- ड्.यन्‍त (ङीप्, ङीष् ङीञ्), अाबन्‍त (टाप्), प्रातिपदिकशब्‍दै: च सह सुपादि प्रत्‍ययाभिधानं क्रियते।
2- सुपादि 21 संख्‍यका: शब्‍दा: प्रत्‍ययनाम्‍ना ज्ञायन्‍ते । इत्‍युक्‍ते सुप् आदि 21 प्रत्‍यया: सन्ति ।
3- सुपादि प्रत्‍ययानां विधानं ड्.यन्‍ताबन्‍तप्रातिपदिकशब्‍दानां परे भवति । इत्‍युक्‍ते सुप् विधानं उक्‍तशब्‍दानां अनन्‍तरं क्रियते न तु प्राक् ।।
यथा - (राम + सु )

हिन्‍दी - 
1- ड्.यन्‍त (ङीप्, ङीष् ङीञ्), अाबन्‍त (टाप्) और प्रातिपदिकों के साथ सुप् आदि 21 प्रत्‍ययों का विधान किया जाता है ।
2- सुप् आदि 21 संख्‍यावाले शब्‍दों को प्रत्‍यय कहते हैं ।
3- सुप् प्रत्‍ययों का जिन ड्.यन्‍त (ङीप्, ङीष् ङीञ्), अाबन्‍त (टाप्) और प्रातिपदिकों से विधान होता है इन्‍हे उन शब्‍दों के बाद लगाते हैं ।
जैसे - (राम + सु )

इति

स्‍वौजसमौट् - अजन्‍तपुलिंगप्रकरणम् ।।

चित्र
सूत्रम् - स्‍वौजस्मौट्छष्‍टाभ्‍यांभिस्डे.भ्‍यां
भ्‍यस्ड.सिभ्‍यांभ्‍यस्ड.सोसाम्ड्.योस्‍सुप् ।।04/01/02।।


व्‍याख्‍या -
।। सु, औ, जस । अम्, औट्, शस् । टा, भ्‍याम्, भिस् । डे., भ्‍याम्, भ्‍यस् । ड.सि, भ्‍याम्, भ्‍यस् । ड.स्, ओस्, आम् । डि., ओस्, सुप् ।।
एते सुप् प्रत्‍यया: । एतेषां योजनेन एव सुबन्‍ता: (शब्‍दरूपाणि) निर्मीयन्‍ते । एतेषां प्रयोग: वयमग्रे द्रक्ष्‍याम: ।।

हिन्‍दी - 

।। सु, औ, जस । अम्, औट्, शस् । टा, भ्‍याम्, भिस् । डे., भ्‍याम्, भ्‍यस् । ड.सि, भ्‍याम्, भ्‍यस् । ड.स्, ओस्, आम् । डि., ओस्, सुप् ।।
ये सुप् प्रत्‍यय हैं । इनको जोडकर सुबन्‍त (शब्‍दरूप) बनाये जाते हैं । इनका प्रयोग हम आगे क्रमश: देखेंगे ।।

इति

कृत्‍तद्धितसमासाश्‍च - अजन्‍तपुलिंगप्रकरणम् ।।

चित्र
सूत्रम् - कृत्‍तद्धितसमासाश्‍च ।।1/2/46।।
कृत्‍तद्धितान्‍तौ समासाश्‍च तथा स्‍यु: ।

व्‍याख्‍या - कृत्प्रत्‍ययान्‍तशब्‍दानां, तद्धितप्रत्‍ययान्‍तशब्‍दानां, समासानां चापि प्रातिपदिकसंज्ञा भवति ।

हिन्‍दी - कृदन्‍त-प्रत्‍यय जिनके अन्‍त में हों (कृत्प्रत्‍ययान्‍त शब्‍द), तद्धित प्रत्‍यय जिनके अन्‍त में हों (तद्धितप्रत्‍ययान्‍त शब्‍द) तथा समास शब्‍दों को भी प्रातिपदिक कहते हैं ।

इति

अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम् - अजन्‍तपुलिंगप्रकरणम् ।।

चित्र
सूत्रम् - अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम् ।।1/2/45।।

धातुं, प्रत्‍ययं, प्रत्‍ययान्‍तं च विहाय अन्‍येषां सार्थकशब्‍दानां प्रातिपदिकसंज्ञा भवति ।

हिन्‍दी - धातु, प्रत्‍यय और प्रत्‍ययान्‍त को छोडकर अन्‍य सार्थक शब्‍द की प्रातिपदिक संज्ञा होती है अर्थात् उक्‍त को छोडकर अन्‍य को प्रातिपदिक कहते हैं ।

इति

सुपो धातुप्रातिपदिकयोः ७२४, २।४।७१

लघु-सिद्धान्त-कौमुदीसुपो धातुप्रातिपदिकयोः ७२४, २।४।७१एतयोरवयवस्य सुपो लुक्॥
सिद्धान्त-कौमुदीसुपो धातुप्रातिपदिकयोः ७२४, २।४।७१एतयोरवयवस्य सुपो लुक् स्यात्। भूतपूर्वे चरट् (सू.1999) इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः। पूर्वे भूतो भूतपूर्वः। इवेन समासो विभक्त्यलोपश्च (वा 1234, 2341)। जीमूतस्येव।
बाल-मनोरमासुपोधातुप्रातिपदिकयोः ६४२, २।४।७१सुपो धातु। "धातुप्रातिपदिकयो"रित्यवयवषष्ठीत्याह--एतयोरवयवस्येति। लुक्स्यादिति। "ण्यक्षत्रियार्षञितो यूनि लुक्" इत्यतस्तदनुवृत्तेरिति भावः। न च "सुप" इत्यनेन सप्तमीबहुवचनस्यैव ग्रहणं किं न स्यादिति वाच्यम्, "पञ्चम्याः स्तोकादिभ्यः" इत्यलुग्विधानात्सुप्प्रत्याहारस्यैवात्र ग्रहणमिति ज्ञापनात्। नचैव मपि पूर्वं भूत इति लोकिकविग्रहवाक्ये परिनिष्ठितसन्धिकार्ययोः सुबन्तयोः समासे सति पूर्वमित्यत्र अमि पूर्वरूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत। पूर्वान्तत्वे तु परिशिष्टस्य मकारस्य सुप्त्वाऽभावात् कथं लुगिति वाच्यं, "सुपो धातु" इति लुग्विषये "अन्तरङ्गानपि विधीन्बहिरङ्गो …

संहिताया: (सन्‍धे:) अनिवार्यता ।।

वाक्‍ये सन्‍धे: अनिवार्यताविषयकं सूत्रमिदं द्रष्‍टव्‍यम्  :-

संहितैकपदे नित्‍या, नित्‍या धातूपसर्गयो: । 
नित्‍या समासे वाक्‍ये तु सा विवक्षामपेक्षते ।। 

व्‍याख्‍या :
एषु स्‍थानेषु सन्धि: अनिवार्यरूपेण भवितव्‍या - 1.एकपदे
2. धातूपसर्गयो: मध्‍ये (एकत्र उपस्थित: सन्)
3. समासे 
किन्‍तु वाक्‍ये तु प्रयोक्‍ता सन्धिकार्यं कर्तुं स्‍वतन्‍त्र ।
इत्‍युक्‍ते संहिता क‍रणीया न वा वक्‍ता स्‍वेच्‍छया निर्धारयेत् ।।

हिन्‍दी - इन स्‍थानों पर सन्धि (संहिता) अनिवार्यरूप से होती है -
1. एकपद में 
2. धातु और उपसर्ग के इकट्ठा होने पर उनके बीच 
3. समास में 
किन्‍तु वाक्‍य में सन्धि के विषय में सन्धिकार्य प्रयोगकर्ता (वक्‍ता) की इच्‍छा पर निर्भर है । अर्थात् यदि वक्‍ता चाहे तो बोलते समय वाक्‍य में सन्धि का प्रयोग करे अथवा स्‍वेच्‍छानुसार सन्धिरहित पद प्रयोग करे ।


इति

धर्मनिरपेक्षतावादस्य तात्पर्यम-

धर्मनिरपेक्षता वर्तमानयुगस्य लोकप्रियविचारधारा वर्तते, यो बहु अर्थको$पि अस्ति। धर्म निरपेक्षता आँग्लभाषाया "सेकुलरिज्म"शब्दस्य हिन्दी वर्तते, यो लैटिनभाषायाः सेकुलर शब्दात निष्पन्नो वर्तते। "ए न्यू इंगिलिश" शब्दकोशानुसारं धर्म निरपेक्षतायाः अर्थः धर्मेण सम्बन्धनासः। एवं प्रकारेण धर्मनिरपेक्षतायाः आशयः अयमेव वर्तते यत राज्यधर्मयोः च पूर्णपृथकता स्यात। अस्यानुसारं राज्यस्य कश्चिदपि राजधर्मो न भवति। एषा सर्वधर्मान प्रति तटस्थतायाः भावो$पि स्थापयति। एवं प्रकारेण धर्मनिरपेक्षता राज्यधर्मयोश्च घनिष्ठसंबन्धे बलं नैव ददाति। भारतीयराजनीतिकसामाजिकव्यवस्थायां धर्मनिरपेक्षतायाः चिह्नम प्राक्कालादेव दृश्यन्ते।प्राक्कालादेव उदारता, वसुधैवकुटुम्बकं, सर्वे भवन्तु सुखिनः इत्यादिनामस्तित्वमस्ति। भारतीय धर्मदर्शने$पि वैचारिकस्वतंत्रता,धार्मिकसहिष्णुता, सर्वधर्मसमभाव-पंथनिरपेक्षता वा विविध-धर्माणां सह-अस्तित्त्वे विश्वासस्य दर्शनं भवत्येव, यस्य भारतीयराजनीतौ स्पष्टप्रभावो दृश्यते। भारतीय राजनीतिकव्यवस्थायां लोककल्याणकारिराज्यस्य स्थापनायै सम्विधाने ते सर्वे नियमाः सुनिश्चिता:, यै: धर…

मानवतावाद:

मानवतावाद:-
मानवतावाद: संसारे प्रचलित सर्वेभ्यः धर्मेभ्यः भिन्नम एकं तादृशं विश्वव्यापी वैज्ञानिकदर्शनं वर्तते, यं सम्पूर्णमानवजातिनां सर्वांगीणविकासाय कल्याणाय च एकमात्रोच्चतमानुकर्णियादर्शरूपे स्वीकर्तुं शक्यते। मानवेषु पारम्परिककलह-वैमानस्यसमुत्पादकप्रचलितधर्मार्णां स्थाने मानवीयानुभवेषु तर्कबुद्धि-वैज्ञानिकविधिश्वाधारित-अस्य मानवतावादी दर्शनस्यानुरूपनिष्ठापूर्वकाचरणं कृत्त्वेव मानवजाति: प्रगतिमार्गे सततं अग्रेसरः भवितुमर्हति। मानवतावाद: मानवस्य एवं तस्य समस्यानां विवेचनमत्यधिकं महत्त्वं ददाति। अस्याः विचारधारायाः केन्द्रविन्दु: ईश्वरः अन्यकश्चित काल्पनिकदैविकशक्ति: वा नैव भुत्त्वा स्वयं मानवाः एव सन्ति।अयं मूलतः निरीश्वरवादी धर्मनिरपेक्षो वर्त्तते, यस्मिन मानवस्य व्यक्तित्त्वस्य अनुभवानां च सर्वोच्चस्थानं वर्त्तते। अस्याः ज्ञानमीमांसा मानवियानुभवेषु तर्क बुद्धिश्वेव च आधारितो$स्ति।
मानवतावादानुसारं ब्रह्मांडस्य अन्तिमसत्ता ईश्वरो कश्चित अन्यो शक्तिर्वा नैव भुत्त्वा प्रकृतिरेव वर्त्तते, या निरन्तरं परिवर्तनशीला अस्ति। अस्याः आचारमीमांसायामपि काल्पनिक-अलौकिक- शक्तीभ्यः कश्चिदस्थानं …