मानवतावाद:

मानवतावाद:-
मानवतावाद: संसारे प्रचलित सर्वेभ्यः धर्मेभ्यः भिन्नम एकं तादृशं विश्वव्यापी वैज्ञानिकदर्शनं वर्तते, यं सम्पूर्णमानवजातिनां सर्वांगीणविकासाय कल्याणाय च एकमात्रोच्चतमानुकर्णियादर्शरूपे स्वीकर्तुं शक्यते। मानवेषु पारम्परिककलह-वैमानस्यसमुत्पादकप्रचलितधर्मार्णां स्थाने मानवीयानुभवेषु तर्कबुद्धि-वैज्ञानिकविधिश्वाधारित-अस्य मानवतावादी दर्शनस्यानुरूपनिष्ठापूर्वकाचरणं कृत्त्वेव मानवजाति: प्रगतिमार्गे सततं अग्रेसरः भवितुमर्हति। मानवतावाद: मानवस्य एवं तस्य समस्यानां विवेचनमत्यधिकं महत्त्वं ददाति। अस्याः विचारधारायाः केन्द्रविन्दु: ईश्वरः अन्यकश्चित काल्पनिकदैविकशक्ति: वा नैव भुत्त्वा स्वयं मानवाः एव सन्ति।अयं मूलतः निरीश्वरवादी धर्मनिरपेक्षो वर्त्तते, यस्मिन मानवस्य व्यक्तित्त्वस्य अनुभवानां च सर्वोच्चस्थानं वर्त्तते। अस्याः ज्ञानमीमांसा मानवियानुभवेषु तर्क बुद्धिश्वेव च आधारितो$स्ति।
मानवतावादानुसारं ब्रह्मांडस्य अन्तिमसत्ता ईश्वरो कश्चित अन्यो शक्तिर्वा नैव भुत्त्वा प्रकृतिरेव वर्त्तते, या निरन्तरं परिवर्तनशीला अस्ति। अस्याः आचारमीमांसायामपि काल्पनिक-अलौकिक- शक्तीभ्यः कश्चिदस्थानं नास्ति। मानवतावादः अस्मिन्नेव संसारे मानवजीवनाय परमध्येयस्य स्वरूपं तस्य प्राप्त्योपायस्य विषये विचारयति। अस्य पूर्णमान्यता वर्तते यत मानवः स्वकीयभाग्यं स्वयमेव निर्माति। ईश्वरः अन्यः कश्चिदैवी शक्तिः अस्मिन विषये अस्य कश्चित सहाय्यं नैव करिष्यति। स्वकीयजीवनस्य समस्यां निराकर्तुं मनावै: स्वयं सिद्धो भवितव्यम। प्राकृतिकनियमान्तर्गते सः स्वकीयजीवनस्य परमध्येयं निश्चेतुं तं प्राप्तुं च स्वतंत्रो वर्त्तते। एतादृशः विचारः पाश्चात्यै: कृतं, परंतु यदि वयं ईश्वरियसत्तामस्विकुर्म: किं तर्हि मानवतावादं परिपालयितुं शक्नुम: वा? अस्माकं निवासः भारते वर्तते, अत्र तु जनाः ईश्वरं विना किमपि कार्यम कुर्वन्त्येव न। दैवियसत्तामस्वीकृते सति मानवेषु दैवियगुणो$पि नैवागमिष्यति, परिणामतः मानवेषु दया, करुणा, परोपकारादिगुणाः नश्यन्ति, पुनः प्रकल्प्यमान विश्वबंधुत्त्वं स्वयमेव विनाशं याष्यति। अतः भारतीयपरिप्रेक्ष्ये पाश्चात्यानां एतादृशाः विचारा: स्वीकर्तुं न शक्यते। यतोहि भारतीय प्रकृतिभिन्ना वर्त्तते, अन्येषां  भिन्ना । इति सम। सुप्रभातं धन्यवादः।।
                 प्रमोदकुमारशुक्ल:
               (असिस्टेन्ट प्रोफेसर)
राष्ट्रीयसंस्कृतसंस्थान(मानितविश्वविद्यालय)
                    लखनऊपरिसर
                          लखनऊ

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी