एकवचनं समबुद्धि: इति सूत्रम-

लघु-सिद्धान्त-कौमुदी

एकवचनं सम्बुद्धिः १३२, २।३।४९

सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्॥

सिद्धान्त-कौमुदी

एकवचनं सम्बुद्धिः १३२, २।३।४९

संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ।

बाल-मनोरमा

एकवचनं संबुद्धिः १९१, २।३।४९

हे रामसिति स्थिते, "एङ्ह्यस्वात्संबुद्धेः" इति लोपं विधास्यन् संबुद्धिसंज्ञामाह--एकवचनम्। "प्रातिपदिकार्थलिङ्गे"त्यतः "प्रथमे"त्यनुवृत्तं षष्ठ()आ विपरिणम्यते। "संबोधने चे"त्यतः संबोधने इत्यनुवर्तते। तदाह-संबोधने इति। "सुः संबुद्धि"रित्येव सुवचम्। प्रथमाग्रहणानुवृत्तेः सप्तमीबहुवचनस्य सुपो न ग्रहणम्। नचात्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं शङ्क्यम्। "ह्यस्वस्य गुणः" इति संबुद्धौ परतोऽङ्गस्य गुणविधिबलात्, संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधाच्च। एतेन तदन्तसंज्ञानिवृत्त्यर्थमेकवचनग्रहणमित्यपास्तम्।

तत्त्व-बोधिनी

एकवचनं संबुद्धिः। १५९, २।३।४९

एकवचनम्। "सुः संबुद्धि"रित्येव सुवचम्। न च सप्तमीबहुवचनेऽतिप्रसङ्गः। "संबोधने प्रथमे"त्यधिकारादेव तदभावादिति नव्याः। अत्र व्याचख्युः--"सुः संबुद्धि"रिति वाच्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम्। अन्यथा "सामत्रित"मिति पूर्वसूत्रे तदन्तस्यामत्रितसंज्ञा कृतेति प्रक्रमाऽभेदाय इयमपि संज्ञा तदन्तस्यैव स्यादिति। एङ्ह्यस्वात्संबुद्धेः। यद्यत्र "हल्ङ्याब्भ्य" इत्यतो हलमननुवर्त्त्य "एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परस्याः संबुद्धेरलोप" इति व्याख्यायेत, हलनुवृत्तावप्यङ्गात्परा या संबुद्धिः तस्या यद्धलिति वा, उभयथापि "हे ज्ञाने"ति न सिध्येत्। लोपात्परत्वात्सोरतोऽभि कृते परत्वान्नित्यत्वाच्च अमि पूर्वत्वे च कृते एकादेशस्य परादिवद्भावे ह्यस्वान्तात्परत्वाभावात्, पूर्वान्तवद्भावे अम एवाभावादुभयत आश्रयणे नान्तादिवदिति निषेधादतो व्याचष्टे-एङन्तादित्वादिना चेदित्यन्तेन।
                 प्रमोदकुमारशुक्ल:
               (असिस्टेन्ट प्रोफेसर)
राष्ट्रीयसंस्कृतसंस्थान(मानितविश्वविद्यालय)
                  लखनऊपरिसर
                      लखनऊ

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)