सुपो धातुप्रातिपदिकयोः ७२४, २।४।७१

लघु-सिद्धान्त-कौमुदी

सुपो धातुप्रातिपदिकयोः ७२४, २।४।७१

एतयोरवयवस्य सुपो लुक्॥

सिद्धान्त-कौमुदी

सुपो धातुप्रातिपदिकयोः ७२४, २।४।७१

एतयोरवयवस्य सुपो लुक् स्यात्। भूतपूर्वे चरट् (सू.1999) इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः। पूर्वे भूतो भूतपूर्वः। इवेन समासो विभक्त्यलोपश्च (वा 1234, 2341)। जीमूतस्येव।

बाल-मनोरमा

सुपोधातुप्रातिपदिकयोः ६४२, २।४।७१

सुपो धातु। "धातुप्रातिपदिकयो"रित्यवयवषष्ठीत्याह--एतयोरवयवस्येति। लुक्स्यादिति। "ण्यक्षत्रियार्षञितो यूनि लुक्" इत्यतस्तदनुवृत्तेरिति भावः। न च "सुप" इत्यनेन सप्तमीबहुवचनस्यैव ग्रहणं किं न स्यादिति वाच्यम्, "पञ्चम्याः स्तोकादिभ्यः" इत्यलुग्विधानात्सुप्प्रत्याहारस्यैवात्र ग्रहणमिति ज्ञापनात्। नचैव मपि पूर्वं भूत इति लोकिकविग्रहवाक्ये परिनिष्ठितसन्धिकार्ययोः सुबन्तयोः समासे सति पूर्वमित्यत्र अमि पूर्वरूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत। पूर्वान्तत्वे तु परिशिष्टस्य मकारस्य सुप्त्वाऽभावात् कथं लुगिति वाच्यं, "सुपो धातु" इति लुग्विषये "अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते" #इत्याश्रित्य सन्धिकार्यप्रवृत्तेः प्रागेवाऽलौकिकविग्रहवाक्ये समासप्रवृत्तिरिति "प्रत्ययोत्तरपदयोश्च" इति सूत्रभाष्ये स्थितम्। "कृत्तद्धितसमासाश्च" इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिदम्। "भस्त्रैषा" इति सूत्रव्याख्यावलरे प्रपञ्चितं चास्माभिः। एवंच पूर्व अम् भूत सित्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्तेर्नोक्तदोषः। तथाच सुपो लुकि भूतपूर्वेति स्थितम्। ननु "सुबन्तं सुबन्तेन समस्यते" इति समासशास्त्रे सुबन्तं प्रथमानिर्दिष्टम्। सुबन्तत्वं च द्वयोरप्यविशिष्टम्। ततश्च "प्रथमानिर्दिष्टं समास उपसर्जनम्" इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वात् "उपसर्जनं पूर्व"मित्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह--भूतपूर्वे चरडिति। पूर्वं भूत इति। लौकिकविग्रहोऽयम्। पूर्वमिति क्रियाविशेषणम्। भूतपूर्व इति समासत्वेन प्रातिपदिकत्वात्समुदायात्पुनर्यथायथं सुबुत्पत्तिरिति भावः।

इवेनेति। इवेत्यव्ययेन सुबन्तस्य समासः। "सुपो धातु" इति लुगभावः। पूर्वपदस्य प्रकृतिसिद्धस्वरश्च भवति, न तु समासस्वर इति वक्तव्यमित्यर्थः। "सह सुपा" इति सिद्धे समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम्। अन्यथा अत्र इवशब्दस्यापि सुबन्तत्वाऽविशेषात्समासशास्त्रे प्रतमानिर्दिष्टत्वेनोपसर्जनत्वात्पूर्वनिपातः स्यात्। जीमूतस्येवेति। अत्र जीमूतशब्दस्य पूर्वपदस्य फिट्स्वरेणान्तोदात्तत्वमेव , न तु समासस्येत्यन्तोदात्तत्वम्। अत्र यथार्थत्वप्रयुक्तोऽव्ययीभावस्तु न, "तत्र तस्येवे"ति निर्देशात्। क्वाचित्कश्चायं समासः। अत एव बह्वचा एव पदपाठे अवगृह्णन्ति। याजुषास्तु भिन्ने एव पदे पठन्ति। "उद्बाहुरिव वामनः" इत्यादिव्यस्तप्रयोगाश्च सङ्गच्छन्ते। "हरीतकीं भुङ्क्ष्व राजन्मातेव हितकारिणी"मित्यत्र तु मातरमिवेति भवितव्यम्। "तिङ्समानाधिकरणे प्रथमा" "अभिहिते प्रथमा" इति वार्तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्तिपरभाष्येण च क्रियायोग एव प्रथमायाः प्रवृत्त्या मातेति प्रथमाया मातृसदृशीमित्यर्थे असाधुत्वादित्यस्तां तावत्।

तत्त्व-बोधिनी

सुपो धातुप्रातिपदिकयोः ५७०, २।४।७१

सुपो धातु। सुप इति प्रत्याहारस्य ग्रहणं, "पञ्चम्याः स्तोकादिभ्यः" इत्याद्यलुक्समासविधानाज्ज्ञापकात्। निर्देशादिति। अन्यथा हि प्रथमानिदिष्टत्वाऽविशेषेऽपि उपसर्जनसंज्ञाया अन्वर्थत्वेन पूर्वशब्दस्यैव पूर्वनिपातः स्यादिति भावः।

इवेन समासो विभक्त्यलोपश्च। इवेनेति। अयमपि समासः पूर्ववत्क्वाचित्क एव। तेन जीमूतस्येवेत्यादौ तैत्तिरीयाणां पृथक्पदत्वन पाठः। "उद्बाहुरिव वामनः" इत्यादौ व्यस्तप्रयोगश्च सङ्गच्छत इति मनोरमायां स्थितम्। विभक्त्यलोपश्चेति। समासावयस्य सुपोऽलोपविधानेऽपि समासादुत्पन्नस्य सोरव्ययादिति लुग्भवत्येव, अनुपसर्जने तदन्तस्याप्यव्ययत्वादिति बोध्यम्।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)