अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहक्र्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिंवसरजसनिःश्रेयसपुरुषायुषव्द्यायुषत्र्यायुषग्र्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ८०८, ५।४।७७

सिद्धान्तकौमुदी

अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहक्र्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिंवसरजसनिःश्रेयसपुरुषायुषव्द्यायुषत्र्यायुषग्र्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ८०८, ५।४।७७

पञ्चविंशतिरजन्ता निपत्यन्ते। आद्यास्त्रयो बहुव्रीहयः। अविद्यमानानि चत्वारि यस्य अचतुरः। विचतुरः। सुचतुरः। त्र्युपाभ्यां चतुरोऽजिष्यते (वा. 3351)। त्रिचतुराः। चतुर्णां समीपे उपचतुराः। तत कादा द्वन्द्वाः। स्त्रीपुंसौ। धेन्वनडुहौ। ऋक्सामे। वाङ्मनसे। अक्षिणी च भ्रुवौ च अक्षिभ्रुवम्। दाराश्च गावश्च दारगावम्। रू च अष्ठीवन्तौ च र्वष्ठीवम्। निपातनाट्टिलोपः। पदष्ठीवम्। निपातनात्पादशब्दस्य पद्भावः। नक्तं च दिवा वा नक्तन्दिवम्। रात्रौ च दिवा च रात्रिन्दिवम्। रात्रेर्मान्तत्वं निपात्यते। अहनि च दिवा चाहर्दिवम्। रात्रेर्मान्तत्वं निपात्यते। अहनि च दिवा चाहर्दिवम्। वीप्सायां द्वन्द्वो निपात्यते। अहन्यहनीत्यर्थः। सरजसमिति साकल्येऽव्ययीभावः। बहुव्रीहौ तु सरजः पङ्कजम्। निश्चितं श्रेयो निःश्रेयसम्। तत्पुरुष व। नेह। निःश्रेयान्पुरुषः। पुरुषस्यायुः पुरुषायुषम्। ततो द्विगुः। व्द्यायुषम्। त्र्यायुषम्। ततो द्वन्द्वः। ऋग्यजुषम्। ततस्त्रयः कर्मधारयाः। जातोक्षः। महोक्षः। वृद्धोक्षः। शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते।

बाल-मनोरमा

अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहक्र्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिंवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषग्र्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ९३२, ५।४।७७

अचतुर। आद्यास्त्रयो बहुव्रीहय इति। बहुव्रीहय एवेत्यर्थः। भाष्यवाक्यमिदम्। अचतुर इति। "नञोऽस्त्यर्थाना"मिति विद्मानपदलोपः। विचतुर इति। विगतानि चत्वारि यस्येति विग्रहः। सुचतुर इति। सु=शोभनानि चत्वारि यस्येति विग्रहः। "न पूजना"दिति निषेधो बाध्यते।

त्र्युपाभ्यामिति। वार्तिकमिदम्। त्रि उप आभ्यां परो यश्चतुर्शब्दस्तस्मादजिष्यते। त्रिचतुरा इति। त्रयो वा चत्वारो वेति विग्रहः। "सङ्ख्याव्ययासन्ने"ति बहुव्रीहिः। "बहुव्रीहौ सह्ख्येये ड"जिति डचं बाधित्वाऽच्। डचि तु टिलोपः स्यात्। उपचतुरा इति। त्रयः पञ्च वेत्यर्थः। "सङ्ख्ययाव्यये"ति बहुव्रीहिः। अच्। तत एकादश द्वन्द्वा इति। द्वन्द्वा एवेत्यर्थः। इदमपि भाष्यवाक्यम्। स्त्रीपुंसाविति। स्त्री च पुमांश्चेति विग्रहः। अच्। धेन्वड्वाहाविति न भवति। समाहारद्वन्द्वे तु "द्वन्द्वाच्चुदषहान्ता"दित्येव सिद्धम्। ऋक्सामे इति। ऋक्च साम चेति विग्रहः। अच्। टिलोपः। ऋक्सामनी इति न भवति। वाङ्मनसे इति। वाक् च मनस्चेति विग्रहः। अच्। वाङ्मनसी इति न भवति। अक्षिभ्रुवमिति। अच्। प्राण्यङ्गत्वादेकवत्त्वम्। अक्षिभ्रु इति न भवति। दारगवमिति। समाहारद्वन्द्वादच्। "दारगु" इति न भवति। इतरेतरयोगद्वन्द्वे तु दारगावः। ऊर्वष्ठीवमिति। प्राण्यङ्गत्वादेकवत्त्वम्। ऊरू-सक्थिनी। अष्ठीवन्तौ=जानुनी। "सक्थि क्लीबे पुमानू रूः" इति, "जानूरूपर्वाष्ठीवदस्त्रिया"मिति चामरः। नन्वडित्त्वादनान्तत्वाच्च कथं टिलोप इत्यत आह--निपातनाट्टिलोप इति। पटष्ठीवमिति। पादौ चाऽष्ठीवन्तौ चेति द्वन्द्वादच्। प्राण्यङ्गत्वादेकवत्त्वम्। नन्वभत्वात्कथमिह पादशब्दस्य पद्भाव इत्यत आह--निपातनादिति। नक्तमिति मान्तमव्ययम्। दिवेत्याकारान्तमव्ययम्। नक्तंदिवेति द्वन्द्वादच्। "यस्येति चे"त्याकारलोपः, "अव्ययीभावश्चे"त्यव्ययत्वम्, नपुंसकत्वं च। "नाव्ययीभावा"दित्यम्भावः। मान्तत्वमिति। रात्रौ च दिवा चेति द्वन्द्वे कृते सुब्लुकि कृते रात्रेर्मान्तत्वं निपात्यत इत्यर्थः। यस्येति चे"त्याकारलोपः, अम्भावश्च। नन्वहन्शब्दार्थस्य दिवाशब्दार्थस्य च एकत्वात्साहित्याऽभावात्कथमिह द्वन्द्वः। अहव्र्यक्तिभेदमादाय द्वन्द्वप्रसक्तावपि "विरूपाणामपि समानार्थकाना"मित्येकशेषो दुर्वार इत्यत आह-वीप्साया द्वन्द्वो निपात्यत इति। "नित्यवीप्सयो"रिति वीप्सायां द्विर्वचने कृते एकशेषं बाधित्वा द्वन्द्वो निपात्यत इत्यर्थः। सरजसमिति। रजोऽप्यपरित्यज्य इत्यस्वपदविग्रहः। रजः=धूलिः। साकल्ये सहशब्दस्य रजश्शब्देनाऽव्ययीभावः। "अव्ययीभावे चाकाले" इति सह शब्दस्य सभावः। अच्। अव्ययीभाव इति। भाष्ये तथावचनादव्ययीभावस्य ग्रहणमिति भावः। सरजः पङ्कजमिति। रजोभिः परागैः सहेति विग्रहः। "तेन सहेति तुल्ययोगे" इति बहुव्रीहिः। "वोपसर्जनस्ये"ति सहस्य सः। बहुव्रीहित्वान्नाऽच्। निऋश्रेयसमिति। कर्मधारयादच्। तत्पुरुष एवेति। तथा भाष्यादिति भावः।निःश्रेयानिति। निश्चितं श्रेयो यस्येति बहुव्रीहित्वान्नाऽजिति भावः। "ईथसश्चे"ति निषेधान्न कप्। पुरुषायुषमिति। षष्ठीसमासादजिति भाष्यम्। ततो द्विगू इति। भाष्यवाक्यमिदम्। द्व्यायुषं त्र्यायुषमिति। द्वयोरायुषोः समाहार इति, त्रयाणामायुषां समाहार इति च विग्रहः। "तद्धितार्थ" इति द्विगोरच्। ततो द्वन्द्व इति। भाष्यवाक्यमिदम्। ऋग्यजुषमिति। ऋचश्च यजूंषि च एषां समाहार इति समाहारद्वन्द्वः। ततस्त्रयः कर्मधारया इति। तथा भाष्यादिति भावः। जातोक्ष इति। जातश्चासावुक्षा चेति विग्रहः। अचि सत्युक्षन्शब्दे टिलोपः। महोक्ष इति। महांश्चासावुक्षा चेति विग्रहः। "आन्महतः" इत्यात्त्वम्। अचि टिलोपः। वृद्धोक्ष इति। वृद्धश्चासावुक्षा चेति विग्रहः। अचि टिलोपः। उपशुनमिति। अव्ययीभावादच्, तथा बाष्यात्। नन्वत्र "नस्तद्धिते" इति टिलोपः कुतो न स्यात्, "अतद्धिते" इति पर्युदासात् "()आयुवमघोनामतद्धिते" इति कथं वा संप्रसारणं स्यादित्यत आह--टिलोपाऽभाः संप्रसारणं च निपात्यत इति। गोष्ठ()आ इति। "सप्तमीसमासाद"जिति भाष्यम्। अत एव भाष्यात्सप्तमीसमासः। टिलोपः। "अतद्धिते" इति निषेधान्न संप्रसारणम्। षष्ठीतत्पुरुषे तु--गोष्ठ()आआ।
                       प्रमोदकुमारशुक्ल:
                         लखनऊपरिसर:

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .