उत्तिष्ठ ! नेत्रमुद्घाटय - संस्कृतगीतम् ।।

उत्तिष्ठ ! नेत्रमुद्घाटय,
जलमानीतं मुखप्रक्षालय।
याता निशा पंकजो विकसितः।।
तेषामुपरि भ्रमरुड्डीतः।
चटका: कूजन्ति वृक्षस्योपरि ।
दिव्यसुगन्धितपवनो वाति ।
दिव्यरक्तता नभसि विभाति ।
कलिका निज हासं प्रसारयति ।
अभवत् प्रातः सूर्यो$$यात: ।
जले प्रदर्शयति निज छायाम् ।
मनोहरं समयं न नाश्यन्तु ।
भो ! मित्राणि अधुना न निद्रान्तु ।।

।। प्रमोदकुमारशुक्लेन विरचितं गीतम ।।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।