संदेश

October, 2017 की पोस्ट दिखाई जा रही हैं

महाकवि भट्टनारायण: ।।

कविनाम -भट्टनारायण:।
आश्रित: -बंगदेशस्‍य (बंगाल) सेनवंशस्‍य प्रवर्तक: गौडाधिपति 'आदिसूर:' ।
उप‍ाधि: -कवेर्मृगराजलक्ष्‍मण:
वर्ण: -ब्राह्मण:
गोत्रम् -शाण्डिल्‍य
स्थितिकालम् -750-850 अनुमित: ।
शास्‍त्रज्ञानम् -योग, सांख्‍य, वैष्‍णवदर्शन, छन्‍दशास्‍त्र, अलंकारशास्‍त्र, वैदिकयज्ञज्ञानम् ।
पिता -अज्ञात
माता -अज्ञात
गुरु -अज्ञात
जन्‍मस्‍थानम् -कान्‍यकुब्‍ज: (कन्‍नौज)

निवासस्‍थानम् -बंगदेश: (बंगाल)
काव्‍यकृतय: -वेणीसंहार-नाटकम्
किम्‍वदन्‍तय: -
1- महाकवि भट्टनारायण: कान्‍यकुब्‍ल प्रदेशस्‍य शाण्डिल्‍यगोत्रीय ब्राह्मण: आसीत् । बंगदेशस्‍य सेनवंशप्रवर्तक गोडाधिपति आदिसूर: वैदिकानुष्‍ठानं कारितुं कान्‍यकुब्‍जात् एनं पंचब्राह्मणै: सह आहूतवान् । एष: तेषु ब्राह्मणेषु प्रधानतम: आसीत् । दक्षिणास्‍वरूपेण आदिसूर: एतस्‍मै पंचग्रामान् अददात्, सभापण्डितरूपेण चाभूषयत् । कालान्‍तरे भट्टनारायण: अपि बंगालराज्‍ये एकस्‍य राजवंशस्‍य प्रवर्तक: अभूत् ।

2- बंगराजघटकानुसारं 'आदिसूर:' भगवन्‍तं प्रसादयितुमेकं यज्ञं कर्तुमिच्‍छति स्‍म् । तेन स: प्रख्‍यातकान्‍यकुब्‍जीयब्राह्मणं भट्टनारायणम् आमन्त्रितवान् ।

3- एकदा वंगराज…