संदेश

December, 2017 की पोस्ट दिखाई जा रही हैं

अन्‍ये केचन् वैयाकरणा: ।

वृषभदेव: - वाक्‍यपदीयस्‍य प्रथमकाण्‍डे (ब्रह्मकाण्‍डे) टीका ।
पुण्‍यराज: - वाक्‍यपदीयस्‍य द्वितीये काण्‍डे टीका ।
हेलाराज: (11तमे ईसवीये) - वाक्‍यपदीयस्‍य त्रिषु काण्‍डेषु टीका । सम्‍प्रति केवलं तृतीयकाण्‍डे एव टीका उपलभ्‍यते ।
मण्‍डनमिश्र: (695वि.) - स्‍फोटवादस्‍य उपरि 'स्‍फोटसिद्धि:' नामक: एक: प्रौढग्रन्‍थ: रचित: । शंकराचार्येण अस्‍य शास्‍त्रार्थ: अपि संजात: यस्मिन् पराजित: सन् अद्वैतवादं स्‍वीकृतवान् । नूतननाम सुरेश्‍वराचार्य: इति अंगीकृतवान् ।
कौण्‍डभट्ट: (1550-1600 वि.) -वैयाकरणभूषण, वैयाकरणभूषणसार ग्रन्‍थयो: रचयिता । भट्टोजिदीक्षितकृत कारिकाणां व्‍याख्‍याग्रन्‍थौ द्वाै अपि ।
भट्टि: -भट्टिकाव्‍यस्‍य रचयिता । केषुचित् स्‍थानेषु अस्‍य अपरनाम भर्तृहरि इति उक्‍तमस्ति । भट्टिकाव्‍यस्‍य वास्‍तविकनाम 'रावणवध' इति अस्ति ।
दयानन्‍दसरस्‍वती (1881-1940 वि.) - अष्‍टाध्‍याय्यां 'अष्‍टाध्‍यायीभाष्‍य' नामकी विस्‍तृतव्‍याख्‍या कृता । एष: औदीच्‍यब्राह्मणकुले टंकारा (काठियावाड) क्षेत्रे उत्‍पन्‍न: । पितु: नाम कर्शनजी तिवाडीआसीत् । आर्यसमाजस्‍यसंस्‍थापकोयं वर्तते । अन्‍यपुस्…

वैयाकरण नागेशभट्ट - वैयाकरण परिचय: ।।

वैयाकरणनाम -नागेशभट्ट:

अपरनाम: - नागोजिभट्ट:
वर्ण: - ब्राह्मण:
गोत्रम् -
स्थितिकालम् - प्रायेण 1670-1750ई. (अनुमानितम्)
शास्‍त्रज्ञानम् -व्‍याकरणम्, साहित्‍यम्, अलंकार:, दर्शनम्, ज्‍योतिषम्
पिता -शिवभट्ट:
माता -सतीदेवी
गुरु -हरिदीक्षित:
जन्‍मस्‍थानम् - महाराष्‍ट्रम्

निवासस्‍थानम् -महाराष्‍ट्रम्

काव्‍यकृतय: - प्रदीपोद्योत उत उद्योत (महाभाष्‍ये प्रदीपटीका), लघुशब्‍देन्‍दुशेखर (प्रौढमनोरमाया: व्‍याख्‍या), बृहच्‍छब्‍देन्‍दुशेखर (प्रौढमनोरमाया: विस्‍तृत व्‍याख्‍या), परिभाषेन्‍दुशेखर (पाणिनीयव्‍याकरणस्‍य व्‍याख्‍याग्रन्‍थ:), मंजूषा, लघुमंजूषा, परमलघुमंजूषा (त्रय: अपि व्‍याकरणस्‍य दार्शनिकग्रन्‍था: सन्ति), स्‍फोटवाद (स्‍फोटवादस्‍य विवेचनग्रन्‍थ:), महाभाष्‍यप्रत्‍याख्‍यानसंग्रह

अन्‍यविवरणम् -
नागेशभट्ट: श्री भट्टोजिदीक्षितस्‍य पौत्र: आसीत् । अनेन प्रायेण व्‍याकरणे एव दशाधिकग्रन्‍थानां प्रणयनं कृतम् । पाणिनीयपरम्‍परायां वरदराजाचार्यस्‍य अनन्‍तरं अस्‍यैव नाम गृह्यते ।व्‍याकरणेन सहैव अस्‍य धर्मशास्‍त्रे, योगशास्‍त्रे अथ च अन्‍यबहुषु शास्‍त्रेषु गतिरासीत् ।हिन्‍दी -  
नागेशभट्ट श्री भट्टोजिदीक्षित के पौत्र थ…

वैयाकरण आचार्य वरदराज - वैयाकरण परिचय: ।।

कविनाम - आचार्य वरदराज

स्थितिकालम् -प्रायेण 1475 ई. (अनुमानित:)
शास्‍त्रज्ञानम् - व्‍याकरणम्

पिता -दुर्गातनय:
माता -अज्ञात
गुरु -भट्टोजिदीक्षित:

जन्‍मस्‍थानम् - महाराष्‍ट्रम्

निवासस्‍थानम् -महाराष्‍ट्रम्

काव्‍यकृतय: - लघुसिद्धान्‍तकौमुदी, मध्‍यसिद्धान्‍तकौमुदी, सारसिद्धान्‍तकौमुदी, गीर्वाणपदमंजरी

अन्‍यपरिचय: -
वरदराजेन सिद्धान्‍तकौमुदीं सरलीकर्तुं लघुसिद्धान्‍तकौमुदी, मध्‍यसिद्धान्‍तकौमुदी च ग्रन्‍थद्वयं कृतम् ।लघुसिद्धान्‍तकौमुद्यां 1277 सूत्राणि, मध्‍यसिद्धान्‍तकौमुद्यां च 2315 सूत्राणि संकलितानि सन्ति ।लघुसिद्धान्‍तकौमुद्या: क्रम: अधिकयुक्तिसंगत: अस्ति ।लघुकौमुद्या: क्रम: अधोक्‍त: अस्ति - संज्ञाप्रकरणम् सन्धि: सुबन्‍त: अव्‍यय: तिड.न्‍त:प्रक्रियाकृदन्‍त: कारकम् समास:तद्धित: स्‍त्री-प्रत्‍यय:  मध्‍यसिद्धान्‍तकौमुद्याम् वरदराजेन श्रीभट्टोजिदीक्षितस्‍य स्‍मरणं कृतमस्ति -
नत्‍वा वरदराज: श्रीगुरुन् भट्टोजिदीक्षितान् ।
करोति पाणिनीयानां मध्‍यसिद्धान्‍तकौमुदीम् ।।
सारसिद्धान्‍तकौमुद्याम् अनेन स्‍वपितु: स्‍मरणं कृतमस्ति -
कृता वरदभदृश्रीदुर्गातनयसूनुना । वेदवेदप्रवेशाय सारसिद्धान्‍तकौमुदीम् ।मध्‍यसिद्धा…

वैयाकरण भट्टोजिदीक्षित: - वैयाकरण-परिचय: ।।

वैयाकरणनाम -भट्टोजिदीक्षित:


वर्ण: -  महाराष्‍ट्रीय ब्राह्मण:

स्थितिकालम् - प्रायेण 1450 ई. (अनुमानित:)
शास्‍त्रज्ञानम् -व्‍या‍करणम्, न्‍याय:, वेदान्‍त:
पिता -लक्ष्‍मीधर:
भ्राता - रंगोजिभट्ट:
माता -अज्ञात
गुरु -शेषकृष्‍ण:(व्‍याकरण), अप्‍पयदीक्षित:(वेदान्‍तशास्‍त्र)
शिष्‍य: - वरदराजाचार्य:
जन्‍मस्‍थानम् - महाराष्‍ट्रम्

निवासस्‍थानम् -महाराष्‍ट्रम्
कृतय: - सिद्धान्‍तकौमुदी (व्‍याकरणम्),  प्रौढमनोरमा (व्‍याकरणम्-सिद्धान्‍तकौमुदीग्रन्‍थस्‍य टीका), शब्‍दकौस्‍तुभ (अष्‍टाध्‍यायीग्रन्‍थस्‍य टीका), लिंगानुशासनवृत्ति (लिंगानुशासने टीका), वैयाकरणमतोन्‍मज्‍जन (दर्शनम्)

सारसंक्षेप: -
अष्‍टाध्‍यायीग्रन्‍थस्‍य सरलीकरणाय भट्टोजिदीक्षितेन अस्‍य प्रकरणेषु विभाजनं कृतम् । तस्‍यैव नाम सिद्धान्‍तकौमुदी इति अासीत् । भट्टोजि‍दीक्षितस्‍य पूर्वं धर्मकीर्ति: (रूपावतारम्), विमलसरस्‍वती (रूपमाला), रामचन्‍द्र: (प्रक्रियाकौमुदी) च अनया पद्धत्‍या ग्रन्‍था: कृतवन्‍त: ।सिद्धान्‍तकौमुद्या: 14 प्रकरणानां नामानि अधोक्‍तानि सन्ति - संज्ञाप्रकरणम् परिभाषा सन्धि सुबन्‍त अव्‍यय स्‍त्रीप्रत्‍यय कारक समास तद्धित तिड.न्‍त प्रक्रिया कृदन्‍…

कैयट - वैयाकरण परिचय: ।।

वैयाकरणनाम -कैयट:
आश्रित: -
उप‍ाधि: -प्रदीपकार:
वर्ण: -कश्‍मीरीब्राह्मण:
गोत्रम् -
स्थितिकालम् -1090 विक्रमी (युधिष्ठिरमीमांसकानुसारम्)
शास्‍त्रज्ञानम् -
पिता -श्री जैयट:
माता -अज्ञात
गुरु -महेश्‍वर:
शिष्‍य: - उद्योतकर: (प्रमुखशिष्‍य:)
जन्‍मस्‍थानम् -काश्‍मीरप्रदेश: (संभावित:)

निवासस्‍थानम् - काश्‍मीरप्रदेश: (संभावित:)
कृतय: - महाभाष्‍यप्रदीप उत प्रदीपटीका (महाभाष्‍योपरि टीकाग्रन्‍थ:)
अन्‍यविवरणम् -
महाभाष्‍यस्‍य टीकाकारेषु भर्तृहरे: अनन्‍तरं कैयटस्‍यैव स्‍थानं विद्यते । महाभाष्‍ये अस्‍य प्रदीपटीका उत महाभाष्‍य-प्रदीपटीका प्रसिद्धा वर्तते । प्रदीपटीकायां अनेन भर्तृहरे: वाक्‍यपदीयस्‍य सहाय्यं बहुधा स्‍वीकृतमस्ति ।पाणिनीयसम्‍प्रदाये प्रदीपग्रन्‍थस्‍य महान् आदर: विद्यते । 'प्रदीप'टीकाया: उपरि प्रायेण 15 लेखकै: टीका कृतमस्ति । नागेशभट्टेन अस्‍या: उपरि प्रदीपोद्योत उत उद्योत टीका कृता ।

हिन्‍दी -
महाभाष्‍य के टीकाकारों में भर्तृहरि के बाद कैयट का ही प्रमुख स्‍थान है । महाभाष्‍य पर कैयट की प्रदीप टीका अथवा महाभाष्‍यप्रदीप टीका प्रसिद्ध है । प्रदीपटीका में कैयट ने भर्तृहरि के वाक्‍यपदीयम् ग्रन्‍थ…

महात्मा भर्तृहरि: - वैयाकरण परिचय: ।।

वैयाकरणनाम - भर्तृहरि:
आश्रित: - एष: स्‍वयमेव राजा आसीत् पुनश्‍च अस्‍य लघुभ्राता आसीत् महाराजविक्रमादित्‍य: एवं जनश्रुतिद्वारा ज्ञायते ।
उप‍ाधि: - महायोगी, महावैयाकरण
वर्ण: - क्षत्रिय:

स्थितिकालम् - प्रायेण 340 ई. (अनुमानितं विवादितं च)
शास्‍त्रज्ञानम् -वेदा:, वेदांगानि, दर्शनानि, योगम्, व्‍यवहारशास्‍त्रम् च 
पिता -अज्ञात
माता -अज्ञात
गुरु -वसुरात (पुण्‍यराजमतानुसारम्)
जन्‍मस्‍थानम् -उज्‍जयिनी (उज्‍जैन)

निवासस्‍थानम् -उज्‍जयिनी (उज्‍जैन)
काव्‍यकृतय: - वाक्‍यपदीयम् (व्‍याकरणग्रन्‍थ:), महाभाष्‍यदीपिका (महाभाष्‍यटीका), वेदान्‍तसूत्रवृत्ति:, मीमांसासूत्रवृत्ति:, नीतिशतकम्, श्रृंगारशतकम्, वैराग्यशतकम्

किम्‍वदन्‍तय: -
विक्रमादित्‍यस्‍य ज्‍येष्‍ठभ्राता आसीत् एष:। अस्‍य द्वे पत्‍न्‍यौ आस्‍ताम् । एकस्‍या: नाम पिंगला, अपरस्‍या: नाम अनंगसेना आसीत् । अनंगसेनायाम् अस्‍य विशेषप्रीतिरासीत् । अनंगसेनाया: प्रीति: अस्‍यैव सेनापते: उपरि आसीत् ।कश्‍चन् महात्‍मा एतस्‍मै अमृतफलमददात् । एष: तत्‍फलम् अनंगसेनायै प्रददात् । अनंगसेना सेनापतये प्रदत्‍तवती । सेनापति: कांचन् गणिकां दत्‍तवान् । सा गणिका तत्‍फलम् पुन: भर्तृहरय…

जयादित्‍य-वामन : वैयाकरण-परिचय: ।।

वैयाकरणनाम -जयादित्‍य-वामनौ (जयादित्‍यश्‍च, वामनश्‍च एतौ द्वौ वैयाकरणौ व्‍याकरणपरम्‍परायाम् समष्टिरूपेण व्‍यव‍हृतौ ।)
आश्रित: -अज्ञात
उप‍ाधि: -काशिकाकार
वर्ण: -
गोत्रम् -
स्थितिकालम् -600ई.-660ई. (अनुमानितम्)
शास्‍त्रज्ञानम् -
पिता -अज्ञात
माता -अज्ञात
गुरु -अज्ञात
जन्‍मस्‍थानम् -

निवासस्‍थानम् -
काव्‍यकृतय: - काशिका (अष्‍टाध्‍यायी-टीका)
काशिकाटीकायां अष्‍टौ अध्‍याया: सन्ति । प्रारम्भिकपंचाध्‍यायानां कर्ता जयादित्‍य:, अन्तिम-त्रयाणाम् अध्‍यायानां कर्ता आचार्य-वामन: अस्ति इति विदुषां मतम् ।अष्‍टाध्‍याय्या: सर्वप्रसिद्धटीका इयमस्ति । सम्‍भवत: काश्‍यां (वाराणस्‍यां) लिखिता तदर्थमेव अस्‍या: नाम काशिका इति अभवत् । सृष्टिधराचार्येण भाषावृत्‍ते: व्‍याख्‍यायाम् काशिका इत्‍यस्‍या: अर्थ: ''काशयति प्रकाशयति सूत्रार्थमिति काशिका'' कृतास्ति ।अस्‍यां टीकायामुपरि आचार्य‍ जिनेन्‍द्रबुद्धि: काशिकाविवरणपंजिका उत न्‍यास इति नाम्‍नी टीका अथ च हरदत्‍त मिश्र: पदमंजरी इति टीका कृतवान् । अन्‍ये बहव: टीकाग्रन्‍था: अस्‍य ग्रन्‍थस्‍योपरि प्राप्‍यन्‍ते ।किम्‍वदन्‍तय: -

इति