जालपृष्‍ठसंस्‍थापकपरिचय: ।।


      अस्‍य जालपृष्‍ठस्‍य संस्‍थापक: ''आनन्‍द पाण्‍डेयवर्य:'' फैजाबादजिल्‍लाया: एकस्‍य लघु ग्रामस्‍य निवासी अस्ति ।
ग्रामस्‍य नाम ईशपुर इति अस्ति । प्रारम्भिकी शिक्षा निकटस्‍थ महबूबगंज इति विपणीम् एव अभवत् । माध्‍यमिकी शिक्षा ग्रामात् 15 कि.मी.मिति गोशाईंगंज इति लघु नगरे रामबलीनेशनलविद्यालये अभवत् तत: एव उच्‍चतरमाध्‍यमिकी शिक्षा अपि संजाता ।
स्‍नातकीयाशिक्षा परास्‍नातकीयाशिक्षा च लखनउविश्‍वविद्यालयात् संजाता । सम्‍प्रति शोधकार्ये संलग्‍नो अवधविश्‍वविद्यालयात् । शोध-विषय: वैदिकवांग्‍मये राष्‍ट्रीय- चेतना इति अस्ति ।
आनन्‍दमहोदयस्‍य संस्‍कृते संगीते च महतीप्रीति: अस्ति । महोदय: संस्‍कृतभारती नाम्‍नी विश्‍वस्‍तरीया संस्‍थाया: सक्रियकार्यकर्ता च अस्ति । एषा संस्‍था देशे-विदेशे च निशुल्‍कं संस्‍कृतसम्‍भाषणप्रशिक्षणं ददाति । केवलं दस दिवसेषु एव संस्‍कृतसम्‍भाषणे गति: प्रापयति ।
संस्‍कृतस्‍य प्रसाराय सम्‍प्रति महोदय: कार्यं करोति, जनान प्रेर‍यति च । अस्मिन् क्रमे एव अस्‍य संस्‍कृतजालपृष्‍ठस्‍य निर्माणं महोदयेन कृतम् । जनानां संस्‍कृते अभिरूचि: दृष्‍ट्वा अस्‍य जालपृष्‍ठस्‍य जनानां कृते अपि द्वारोद्घाटनं विचारितम् ।
अद्य अस्‍य जालपृष्‍ठसंग्राहकस्‍य लेखकानां संख्‍या दशाधिकी जाता अस्ति । अग्रे इतोपि वर्धिष्‍यते इति आशासे ।


My Google Profile
Sanskrit