पुरातनी कथा अस्ति ।
काशीयात्रा करणीया नाम पूण्यकार्यं करणीयम् इति मानसिकता आसीत् । यात्रा सुकरा न। यतः प्रवासस्य इदानीम्तनम् साधनम् न आसीत् । विशालाः मार्गाः, मार्गे सुविधाः च न आसन् ।
विष्णुदासः नाम्ना कश्चन अन्धः युवकः काशीयात्रां कर्तुम् इच्छुः आसीत् । किन्तु परिवारस्य, प्रतिवेशिनाम्, परिचितानाम् च अनुमतिः न आसीत् । एकत्र प्रवासः कठिनः अपरत्र सः दृष्टिहीनः।
तथापि सः दृढनिश्चयं कृत्वा निर्गतवान् । नगरात् बहिः आगत्य परितः जनानाम् ध्वनीं श्रुतवान् ।
"काशीनगरस्य मार्गम् भवत्सु कोsपि कृपया दर्शयति वा?" सः उचैः पृष्टवान् ।
वृक्षस्य अधः उपविष्टः कृष्णकुमारः अवदत् " अहम् जानामि काशीनगरस्य मार्गम् । मया अपि काशीयात्रा
करणीया । किन्तु अहम् तु खञ्जः।"
"आगच्छतु , आवाम् परस्परसहाय्येन काशीयात्रां कुर्व । भवान् मम नेत्रे भवतु, अहं भवतः पादौ भवामि । आगच्छतु , मम पृष्ठे उपविशतु ।" ---विष्णुदासः अवदत् ।
विष्णुदासेन कृष्णकुमारेण च परस्परसहाय्येन काशीयात्रा कृता। तौ सुखरुपौ प्रत्यागतवन्तौ।
यत् कार्यम् एकाकिना अशक्यम् आसीत् तत् व्दयोः एकत्रीकरणेन शक्यम् अभवत् ।
एवम् एव अस्माभिः अपि मिलित्वा परस्परसहाय्येन संस्कृतविषये जनजागृतिः करणीया ।

3 टिप्पणियाँ

एक टिप्पणी भेजें

और नया पुराने