कश्चन वक्ता सन्ततुकारामगाथाविषये विवेचनं समाप्य अवदत् ,"मनसि प्रश्नाः सन्ति चेत् पृच्छन्तु।"
वयसा युवा कश्चन उत्थाय अपृच्छत् ," सन्ततुकारामस्य मनः कुर्वन्तु प्रसन्नम् इति भवान् उत्तमरित्या अवगमितवान् 

किन्तु जीवने मनोभाराः सन्ति, चिन्ताः सन्ति। मनः प्रसन्नं कथं करणीयम् ?"
वक्ता शिष्यम् अवदत् ," कृपया पातुं जलम् आनयतु।"
शिष्यः चषके जलम् आनयत्।
चषकं दर्शयित्वा वक्ता अपृच्छत् ," श्रोतारः, चषकस्य भारः कियत् भवेत्?"
"शतं, शतद्वयं भवेत् " श्रोतृषु केचन् अवदन्।
" अहमपि न जानामि। निमेषद्वयम् एतं चषकम् अहं हस्ते एव गृह्णामि चेत् किं भवेत्?"
" किमपि न।" ---कश्चन
" होरायावत् गृह्णामि चेत्?"---वक्ता।
" क्लेशः भवेत्।"
" दिनं यावत् गृह्णामि तर्हि?"
" हस्तः निःसज्ञः भवेत्। कदाचित् चिकित्सालयं गत्वा किञ्चित् कालं तत्र यापयेत् भवान्।"
"किन्तु चषकभारः वर्धेत वा?"
"न"
"जीवने याः चिन्ताः सन्ति मनोभाराः सन्ति ते अपि न वर्धन्ते । तेषां विषये किञ्चित् कालम् एव चिन्तयामः चेत् दोषः न । अधिकं चिन्तयामः चेत् शिरोवेदना भवेत् । दीर्घकालंयावत् चिन्तयामः चेत् पङ्गवः भवामः । अतः चिन्ताभारस्य मनोभारस्य च चषकं निमित्तेन अधः स्थापयन्तु । निर्भयाः भवन्तु । भगवान् सर्वं जानाति ।"

1 टिप्पणियाँ

  1. सुन्‍दरी ज्ञानवर्धिनी कथा निशा जी

    हार्द: धन्‍यवादा:

    उत्तर देंहटाएं

एक टिप्पणी भेजें

और नया पुराने