समासार्थविमर्श:
     प्राक् कडारात् समासः इति सूत्रव्याख्यायां तत्त्वबोधिन्यां समासशब्दस्य व्युत्पत्तिः वर्तते। समसनं समासः भावे घञ्, अर्थात् अनेपदस्य एकपदीभवनमित्यर्थः। वस्तुतस्तु अकर्तरि च कारके इति कर्मणि घञ् अन्यथा सुबन्तं समस्यत इत्युत्तरग्रन्थो न संगच्छते।
अयञ्च समासः पदसम्बन्धीविधिरिति कृत्वा सामर्थ्ये सत्येव भवतीति, समर्थः पदविधिः, इति सूत्रादवगम्यते। तत्र किं नाम सामर्थ्यमिति जिज्ञासायाम्,
तत्त्वबोधनीकारेणोक्तम् - सामर्थ्यञ्च द्विविधं व्यपेक्षालक्षणमेकार्थीभावलक्षणञ्चेति, स्वार्थपर्यवसायिनां, पदानामाकाङक्षादिवशात् यः परस्परसम्बन्धः सा व्यपेक्षा सैव वाक्ये राज्ञः पुरूषःतत्र ह्यपेक्षायां सत्यां यो यः संनिहितो योग्यश्च तेन तेन संबंन्धोऽभ्युपेयते। यथा राज्ञः पुरूषः अश्वश्च।
एकार्थीभावस्तु- प्रक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थत्वरूपः राजपुरूषः इत्यादि। उक्तञ्च भाष्ये "एकार्थीभावो वा सामर्थ्यं स्याद् व्यपेक्षा वेति"व्याख्यातञ्च कैयटेन, यत्र पदान्युपसर्जनीभूतस्वार्थानि, निवृत्तस्वार्थानि वा प्रधानार्थोपादानाद् व्यर्थान्यर्थान्तराभिधायीनि वा स एकार्थीभावः परस्पराकांक्षारूपा व्यपेक्षा।
एवञ्च पक्षद्वव्यमुपस्थाप्य व्यपेक्षापक्षं दूषयता पतञ्जलिना भणितं समर्थः पद विधिरिति सूत्रभाष्ये, अथैतस्मिन् व्यपेक्षाया सामर्थ्ये, योऽसावेकार्थीभावकृतो विशेषः स वक्तव्यः। एवञ्च शाब्दिकानां नये एकार्थीभावे एव समासविधानात् समासस्थले, राजपुरूषादौ विशिष्टे शक्तिस्तत्र पदानि निरर्थकानि पदेषुवर्णवत्। वैयाकरणानां मते समासे एकार्थीभावरूपाशक्तिः वर्तते।
अत्राक्षिपन्ति – नैयायिकमीमांसकादयः- समासघटकराजादि पदानां प्रत्येकं नृपादिषु पृथकशक्तिः विद्यते। अत एव राजा वदति, राजानं प्रणमति, पुरुषोऽस्ति, पुरूषमानयेत्यादौ, च नृपादिविषय शाद्वबोधाः जायन्ते।  राजपुरुषादिसमासेऽपि प्रत्येकपदनिरूपितया शक्त्या लक्षणया वोपस्थितयोर्थयोः परस्परमन्वये बुभुत्सितार्थविषयकशाब्दबोधसम्भवात् राजपुरुषादिसमासे राजसम्बन्धिपुरुषनिरूपितैकाऽतिरिक्ता शक्तिः समुदाये नाङ्गीकरणीया अनन्यलभ्यो हि शद्बार्थ इति न्यायात्। अत्र च राजपुरुषरूपार्थयोः राज- पुरुषपदाभ्यामुपलभ्यत्वेन तत्र समुदाये शक्तिकल्पनमनुचितम्। अत एव कृतद्धितसमासाश्चेति सूत्रे समाग्रहणमपि चरितार्थम् ,अन्यथा समुदाये शक्तिसत्त्वे वृत्तिमत्त्वरूपार्थवत्त्वस्य सत्त्वादर्थवत् सूत्रेणैव प्रातिपदिकत्वे सिद्धे तत्र समास ग्रहणमनर्थकमेव स्यात्। तस्मात् समुदाये शक्तिस्वीकरणं निरर्थकम्।
राजपुरुष इत्यादौ तु राजपदादेः राजसम्बन्धिनि लक्षणां कृत्वा पुरुषपदेन सह अभेदान्वयकृते सति  राजसम्बन्धवदभिन्नः पुरुष इति शाब्दबोधः। एवञ्च ऋद्धस्य राजपुरुष इति न प्रयोगापत्तिः राज्ञः पदार्थैकदेशत्वेन तत्र पदार्थान्तरस्यान्वयासम्भवः"पदार्थ पदार्थेनाऽन्वेति न तु पदार्थैक देशेनेति न्यायविरुद्धत्वात्। न चैतस्मिन् मते घनश्याम इत्यत्र सदृशरूपार्थप्रतीतये इवादिशद्ब प्रयोगापत्तिरिति वाच्यं धनशब्दस्य धनसदृशेलक्षणास्वीकारणेन लक्षणयैवोक्तार्थतया उक्तार्थानामाप्रयोग इति न्यायेनेवादीनामाप्रयोगात्।
राजपुरूषः इत्यादौ राजपदोपस्थापितो राजा स्वस्वामिभावरूपेण भेदसम्बन्धेन पुरूषे अन्वेति निपातस्येव समासावयवस्यार्थो भेदेन प्रातिपदिकार्थेनान्वेति व्युत्पत्तिवैचित्र्यात्। यद्वा लुप्तषष्ठीजन्यपदार्थोपस्थितिः सहकारेण विग्रहवाक्यादिव समासादपि राजनिरूपितस्वत्ववान् पुरूषः इत्याकारकः स्वत्वप्रकारको बोध इति हि व्यपेक्षावादिनां मतम्।
एवं समासस्य शक्तिमत्त्वाभावे अर्थवत्त्वाभावात् प्रातिपदिकसंज्ञायाः अनुपपत्तिः। चित्रगुः इत्यादौ पूर्वपदे उत्तरपदे पदद्वये वा लक्षणया विवक्षितबोधासंभवः। तथाहि न तावत् गोपदस्य गोस्वामिनि लक्षणायाः तत्संभव। पदार्थैकदेशे गवि चित्रादेः अनन्वयप्रसङ्गात्। नापि गोपदस्यैव चित्राभिन्नगोस्वामिनिलक्षणा चित्रपदं तात्पर्यग्राहकमिति युक्तम्। चित्रपदार्थगोपदार्थयोरन्वयाभावेन तत्पदप्रयोज्यविषयतानिरूपित- विषयताप्रयोजनकत्वलक्षणैकवाक्यतात्मकव्यपेक्षा सामर्थ्यस्य चित्रगोपदयोरभावात् समासानुपपत्तेः। नापि चित्रापदगोपदयोरूभयोरपि चित्राभिन्नगोस्वामिनि लक्षणा। बहुब्रीहौ, एकशेषद्वन्द्वान्यतरप्रसङ्गात्।
तथापि अषष्ठयर्थबहुब्रीहौ प्राप्तोदको ग्राम इत्यादौ व्यपेक्षारूपसामर्थ्यौपगमे कथमपि नाभिमतार्थबोधनिर्वाहः। तथाहि प्राप्नोतेः उत्तरदेशसंयोगावच्छिन्ना क्रिया क्तप्रत्ययस्य कर्ता, अर्थः। तेन प्राप्तिकर्तृप्राप्तपदार्थः। उदक्पदं च व्यपेक्षावादिमते जलसम्बन्धिनि लाक्षणिकम् तदेकदेशे जले प्राप्तस्यतादात्म्येनान्वयः। न ह्मेतावतापि उदककर्तृकप्राप्तिकर्मग्राम इत्यन्वयबोधनिर्वाहः। अभिमतश्च तादृश एवान्वयबोधः। तस्मात् व्यपेक्षारूप- सामर्थ्योपगमेनानिर्वाहात् एकार्थीभावरूपसामर्थ्यमङ्गीकरणीयम्। तच्च समुदायशक्तिं विना न निर्वहति इति समासे शक्तिसिद्धिरस्ति।
एवं समर्थः पदविधिरिति सूत्रस्थं सामर्थ्यं यद्येकार्थीभावात्मकं स्यात्तदा "सुबामन्त्रिते पराङ्गवत्स्रस्वरे"इति सूत्रेऽपि समर्थपदानुवृत्त्या द्रवत्पाणीशुभस्पती इत्यत्र, सुबामन्त्रिते इत्युक्तसूत्रस्य प्रवृत्तिर्नस्यात् तत्र एकार्थीभावात्मकसामर्थ्या भावात्। उक्तस्थले एतत्सूत्राप्रवृतौ शुभधातो क्विपि शुभ इति षष्ठी सुबन्तस्य, पतीत्यामन्त्रिते परे पराङ्गवद् भावः परस्यामन्त्रितस्याङ्गवद्भावः तद् ग्रहणेन ग्रहणं न स्यात्। एवञ्च आमन्त्रितस्यादिरूदात्तः स्यात् इत्यर्थकेन आमन्त्रितस्य च इति षाष्ठिकेन सूत्रेण आद्युदात्तत्त्वं न स्यात् तत्र पदात्परस्यापादादिस्यतस्यामन्त्रितस्य सर्वस्यानुदात्तस्यादि- व्यर्थकेन, आमन्त्रितस्य च इति आष्टमिकेन सूत्रेण निघातस्वरस्तु असम्भव एव पूर्वस्यामन्त्रितस्य, आमन्त्रितं पूर्वमविद्यमानवत् इत्यनेन अविद्यमानवद्भावे शुभ इत्यस्य पादादित्वात्।
सुबामन्त्रिते पराङ्गवत्स्वरे इत्यस्मिन् सूत्रे समर्थः पदविधिः इत्यस्मात् सूत्रात् समर्थपदस्य अनुवृत्तिः आगच्छति अतः अस्मिन् सूत्रे समर्थपदस्य सम्बन्धो नास्ति इति न शङक्यः। अन्यत्रैकार्थीभावात्मकं सामर्थ्यं स्वरे कर्तव्ये तु व्यपेक्षात्मकमिति वक्तुं न युक्तम् अर्धजरतीयस्यानौचित्यात्। अतः सर्वत्र व्यपेक्षात्मकमेवसामर्थ्यमिति न समुदाये शक्तिः।
शाद्बिकाः – किं पुनः समर्थं नाम। पृथगर्थानामेकार्थीभावः समर्थः वचनम् क्व पुनः पृथगर्थानि क्वैकार्थानि। वाक्ये पृथगर्थानि राज्ञः पुरुष इति। समासे पुनः एकार्थानि राजपुरुष इति, इति समर्थसूत्रस्थं भाष्यं प्रमाणम्। व्यपेक्षापक्षे च परस्परव्यपेक्षां सामर्थ्यमेके इति भाष्यप्रमाणम्। अनयोः पक्षयोः एकार्थीभावपक्ष एव युक्तः इत्याह-
समासे खलु भिन्नैव शक्तिः पङ्कजशद्बवत्
बहुनां वृत्तिधर्माणां वचनैरेव साधने स्यान्यमहद् गौरवं तस्मात् एकार्थीभाव आश्रितः। समास इति वृत्तिमात्रोपलक्षणम्, समर्थः पदविधिः इत्यत्र पदमुद्दिश्य यो विधीयते समासादिः स समर्थः विग्रहवार्क्यार्थाभिधाने शक्तः सन साधुरिति सूत्रार्थस्य भाष्याल्लाभात्। पदोद्देश्यक विधित्वं च कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चस्वपि वृत्तिष्वस्त्येव।
राजपुरुष चित्रग्वादि समासादि पञ्चके यदि समुदायशक्तिर्न स्यात् तदा पङ्कज, रथकार, शद्बयोरपि समुदाये शक्तिर्न स्यात्। पङ्कजनिकर्तुः रथकर्तुश्चावयवशक्त्यैवोपस्थितिः सम्भवात्। पङ्कजशब्दस्थले बोध्यधर्मिणः पद्मत्वेनोपस्थित्यर्थः तथा रथकारशब्दस्थले बोध्यधर्मिणः सङ्कीर्णजातिविशेषक-कर्मकारत्वेनोपस्थित्यर्थं यदि विशिष्ट शक्तेरावश्यकता तदा तुल्यत्वाद् राजपुरुष चित्रग्वादिपद स्थलेऽपि स्वामित्वादिना बोध्यधर्मिणो बोधाय समुदायशक्तिरपेक्षितैव। राजपुरुषादिस्थले लक्षणामाश्रित्यैव चेत् स्वामित्वादिना बोध्यधर्मिणो बोधोपपादनं तर्हि पङ्कज,रथकारादिशद्धस्थलेऽपि लक्षणामाश्रित्यैवाभीष्टबोधसम्भवे तत्रापि विशिष्टशक्तर्नावश्यकता रथकारपदस्थले समुदायशक्त्यसत्त्वे वर्षासु रथकारोऽग्निमादधीतेति विधिवाक्यमूलकमीमांसा सिद्धान्तोऽसंङ्गतः स्यात्। तत्र समुदायशक्तौ, असत्यामवयवशक्त्या रथं करोतीति व्युत्पत्त्या वस्तुतो रथकर्तुस्त्रैवर्णिकस्य ब्राह्मणादेरपि रथकारपदादुपस्थितौ तस्य च स्वतः एव वेदाध्ययने प्राप्ताधिकारत्वेनोक्त विधिवाक्यबोधितं वर्षाकालाधिकरणकं रथकारकर्तृकः वैदिकमन्त्रोच्चारण साध्याग्नि- कर्मकाधानात्मककर्मणः उपपत्यर्थं तदुपपादके तत्रापेक्षितवेदभागाध्ययनेऽधिकारकल्पनायाः औचित्याभाव प्रसङ्गात् अप्राप्तस्यैव वस्तुतः कल्पनौचित्याद् रथकारपदात्तत्रोपस्थितस्य तत्कर्मकर्तुः तत्रापेक्षितवैदिकमन्त्राध्ययने ऽधिकारस्य पूर्वप्राप्ततयाऽप्राप्तत्वविरहात् तथा चाधिकारविशेषकल्पनात्मकतत्प्रकरणसिद्धान्तस्यानौचित्यं तत्र समुदायशक्तिविरहे भवत्येव।
सत्यञ्च तत्र समुदायशक्तौ रथकारस्तु माहिष्यात्करण्यां यस्य सम्भवः इति क्षत्त्रिया मागधं वैश्याच्छूद्रात्क्षत्तारमेव चेति च याज्ञवल्क्यस्मृत्या। तच्छक्त्यारथकारपदाच्छूद्रत्वजात्यवान्तरकर्मकारत्वजातिविशेषवतः शूद्रविशेषस्य न स्त्रीशूद्रौ वेदमधीयातामित्येतद्वचनानुसारं वेदाध्ययनानधिकारिण एवोपस्थितौ तस्योक्तविधिवाक्यबोधित वर्षाकालाधिकरणकस्वकर्तृक वैदिकमन्त्रोच्चारणसाभ्यकाग्निकर्मकाधानकर्मणउपपत्त्यर्थं तत्रापेक्षितं वैदिकमन्त्राध्ययनेऽप्राप्ताधिकारकल्पना युक्तैवेति तत्प्रकरणसिद्धान्तस्य नासङ्गतिः।
मीमांसकास्तु पङ्कजशब्दस्थलेऽवयवार्थ समुदायार्थयोः परस्परमन्वयं स्वीकुर्वन्तोऽपि ततः केवलावयवार्थस्यैव केवलसमुदायार्थस्यैव वा बोध निरासार्थमवयवार्थसमुदायार्थयोः परस्परसाकाङक्षत्वनियमंनैव स्वीकुर्वन्ति। किन्तु केवलावयवार्थबोधम्प्रति रूढिधिया (समुदायशक्तिज्ञानस्य) एवं केवलसमुदायार्थधियम्प्रति योगधियः (अवयवशक्तिज्ञानस्य) प्रतिबन्धकत्वं स्वीकुर्वते। ततश्च रूढेरज्ञानकाले केवलावयवशक्तिज्ञानाक्तुमुदस्य एवमवयवशक्तेरज्ञानकाले समुदायशक्तिज्ञानात्स्थलपद्मस्य च पङ्कजपदाद् विनैव लक्षणां बोधमुपपादयन्ति।
शाब्दिकानां मते तु ,यौगिक, रूढ, यौगिकरूढभेदेन, नाम्नस्त्रैविध्यमेव योगरूढं नामैव नास्ति। पङ्कजशब्दो यौगिकरूढनामान्तर्गत एवं पङ्कजशब्दस्य पङ्कजनिकर्तरि शक्तिसत्त्वेऽपि पङ्कजपदात्पङ्जनिकर्तृत्वेन पद्मस्य नैव बोधः किन्तु पद्मत्वेनैव बोधः।
नागेशेनापि- योग, रूढि, योगरूढिभेदेन शक्तेस्त्रैविध्यमुपपादयता नाम्नोऽपि त्रैविध्यमेव सूचितम्। पङ्कजपदे च योगरूढिशक्तिर्दशिता। तथा पङ्कजपदात्क्वचित्कुमुदस्य क्वचित्स्थलकमलस्य च बोधो विनैव लक्षणां पूर्वत्रावयवशक्त्या परत्र च समुदायशक्त्योपपादितः। रूढिर्योगापहारिणीत्येषनियमः प्रकरणादिविरहस्थलीय एवेति च विज्ञापितम्।
नैयायिकैः उक्तं यत्, समासे, शक्त्यङ्गीकारे अर्थवत्सूत्रेणैव प्रातिपदिकसंज्ञा सिद्धा कृत्तद्धितेति सूत्रे समासग्रहणं व्यर्थं स्यादिति तत्रेष्टापतिरेव। अत एव समास- ग्रहणं यत्र संघाते पूर्वोभागः पदं तस्यचेत्भवति तर्हि समासस्यैवेति नियमार्थं तेन राज्ञः पुरूषः मूलेकनोपदंशमित्यादिवाक्यस्य न प्रातिपदिकसंज्ञा।
किञ्च राजपुरुषादि समासस्य प्रातिपदिकसंज्ञा सिद्धयर्थं विशिष्टे शक्तिः स्वीकरणीया अन्यथातस्यानर्थकत्वात् प्रातिपदिकसंज्ञा न स्यात्। अतएवाऽर्थवत् सूत्रे भाष्ये अर्थवता समुदायोऽनर्थकः दश, दाडिमानि षडपूपाः कुण्डमजाजिनम् इति प्रत्युदाहृतम्। एवञ्च नैयायिकरीत्या राजपुरुषपदयोः प्रत्येकमर्थवत्त्वेऽपि समुदायस्यानर्थकत्वात् प्रातिपदिकत्वानापत्तिः। न च समासस्य विशिष्टार्थे लाक्षणिकत्वेन वृत्तिमत्वात् अर्थवत्त्वेन प्रातिपदिक संज्ञा, भविष्यत्येवेति वाच्यम् लक्षणायाः शक्यसम्बन्धरूपतया समासपदशक्यस्याप्रसिद्धौ लक्षणाया अप्यसम्भवात्।
वैयाकरणसिद्धान्तमञ्जूषायां नागेशभट्टेन, तस्मात् समासे शक्त्यस्वीकारे राजपुरुषादीनां प्रतिपदिकसंज्ञा न स्यात्। एवञ्च, स्वाद्यनुत्पत्तौ अपदं न प्रयुञ्जीतेति भाष्यात् समस्त प्रयोगविलयापत्तेः अतः समासे शक्तिरङ्गीकरणीया।
न चैवं समासे, शक्ति स्वीकारे निषादस्थपत्यधिकरणीयमीमांसा सिद्धात्तोऽसंगतः स्यात्। तथाहि- निषादस्थपतिं याजयेदित्यत्र निषादस्थपतिपदे निषादीनां स्थपतिरिति षष्ठीतत्पुरुषो निषादश्चासौ स्थपरिति कर्मधारयो वेति सन्देहे कर्मधारय एवेति तदधिकरणेन व्यवस्थाप्यते ।यतः षष्ठीतत्पुरुषे निषादपदस्य षष्ठ्यन्तार्थनिषादसम्बन्धिनि लक्षणाऽऽवश्यकी नामार्थयोर्भेदान्वस्य व्युत्पत्तिविरूद्धतया निषादपदार्थस्य स्थपतिपदार्थे भेदनान्वयासम्भवात्। कर्मधारये च निषादपदार्थस्य अभेदेन स्थपति पदार्थेऽन्वयसम्भवाल्लक्षणायाः अनावश्यकत्वमिति लक्षणाकल्पनप्रयुक्तगौरवादेव न षष्ठीतत्पुरुषः। किन्तु कर्मधारय एवेति समासे शक्तिः स्वीकारे तु निषादस्थपतिपदस्य निषादसम्बन्धिस्थपतौ निषादाभिन्नस्थपतौ  शक्तेरेव सत्वात्। उभयपक्षे लक्षणायाः अऩावश्यकत्वमिति क्व लाघवगौरवचर्चा इति वाच्यम्। उक्तस्थले लक्षणाप्रयुक्तलाघवं गौरवं वा न स्वीक्रियते अपितु समास विशिष्टार्थशक्तौ निषादाभिन्न स्थपतिरित समासार्थः कर्मधारय पक्षे निषादसम्बन्धिस्थपतिरित्यर्थः।  एवञ्च षष्ठी तत्पुरुषपक्षे निषादानां स्थपतिस्त्रैवर्णिको निषादभिन्ने वेति सन्देहः स्यात् एवञ्च कर्मधारय पक्षे निषादभिन्नवर्णोपस्थित्यकल्पनप्रयुक्त लाघवात् तत्पक्षः स्थापितः न तु लक्षणाकरणाकरणमूलकलाघवगौरवमादाय अतः विशिष्टशक्तिवादिमते निषादस्थपत्यधिकरणेन विरोधाभावात् तत्पक्ष एव श्रेयस्करः।
समासे शक्तिस्वीकारादेव राजपुरुषादिसमासे समासघटकपदानां शक्ति- लक्षणावाजानतां जनानां गुरूपदिष्टायां समुदायशक्तौ राजपुरुषदिपदैः विशिष्टार्थविषयकः बोधः तेभ्य जायत इति सर्वैरेवानुभूयते यदि विशिष्टे शक्तिर्न स्यात् तदा अवयवार्थ विषयकज्ञानाभावे विशिष्टार्थविषयबोधो न स्यात् वाक्यार्थज्ञाने पदार्थज्ञानस्य कारणत्वात्।
शक्तिभ्रमात् शाद्बबोधः इति वक्तु न शक्यते, बोधकतारूपायाः एव शक्तेः वैयाकरणैः स्वीकृतत्वात्। विशिष्टार्थबोधकतायाः शक्तेः समासे विद्यमानत्वात् बाधाभावेन तत्र शक्तिज्ञानं भ्रमात्मकमिति वक्तुमशक्यत्वात्।
एवञ्च यथा घटादिपदान्तर्गत घकारादि प्रत्येकवर्णनिष्ठशक्तिज्ञानाभावेऽपि घटपदनिष्ठशक्तिज्ञानेन घटविषयकबोधदर्शनात् तत्र समुदायशक्तिः स्वीक्रियते तथैव समासेऽपि प्रत्येकं पदशक्तिः ज्ञानाभावेऽपि समुदायशक्तिज्ञानात् राजपुरुषादिषु विशिष्टार्थ- बोधदर्शनात् तत्रापि समुदायशक्तिरवश्यमेवाभ्युपगत्तव्या।
अतः समासे एकार्थीभावरूपमेव सामर्थ्यं राजते।
                          इतिसम

टिप्‍पणी

और नया पुराने