परार्थस्याभिव्यक्तिः वृत्या भवति अतः कथितं ‘परार्थाभिधानं वृत्तिः’ सा च वृत्तिर्पञ्चधा – कृत्तद्घितसमासैकशेषसनाद्यन्तधातुरूपाः  सन्ति । पञ्चसु वृत्तिसु समासोऽपि एकः विशिष्टवृत्तिविशेषः, बहूनां पदानां मिलित्वैकपदीभवनं समासो भवति। अथवा समसनं समासः इत्यपि कौमुद्यां लिखितं समसनं नाम सङ्क्षिप्तीकरणमिति,वृत्तेः अर्थावबोधकं वाक्यं विग्रहो भवति । स  द्विविधः वर्तते – लौकिकोऽलौकिकश्च । तत्र परिनिष्ठितत्वात् व्याकरणसंस्कृतत्वात् साधुर्लौकिकः । प्रयोगानर्हः व्याकरणसंस्कृतत्वाभावरूपोऽसाधुरलौकिकः । यथा -  राजपुरुष इत्यस्य ‘राज्ञः  पुरुषः’ इति लौकिको विग्रहो  राजन्+ङस् पुरूष+सु इत्यलौकिकविग्रहो वर्तते । ‘समर्थः पदविधिः’’  इति  सूत्रे महाभाष्यकारेण प्रतिपादिकेषु नैकपक्षेषु एकार्थीभावरूपस्य  जहत्स्वार्थावृत्तिपदस्य व्यपेक्षारूपस्य चाजहत्स्वार्थां वृत्तिपक्षस्य निरूपणं कृतम् ।
जहत्स्वार्थाजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा
भेदः संसर्ग उभयं वेति वाच्यव्यवस्थितेः ।
जहत्स्वार्थाजहत्स्वार्थावृत्तिभेदेन समासस्य द्वे वृत्ती स्तः । इमे द्वे वृत्ती भेदः, संसर्गः तथोभयमित्येवं रूपेण पुनः त्रिविधा भवति । अर्थात् वाच्यार्थभेदेन 1- भेदः 2- संसर्ग 3- भेदसंसर्गोभयम् ।
अत्र प्रथमं भेदं बोधयितुमाह- वाच्यमेवाह भेदः,भेदस्यार्थो वर्तते अन्योन्याभावः इति। स च तादात्म्यसम्बन्धेनाभावोऽन्योन्याभावो भवति । यथा ‘घटो न पटः’  इति अन्योन्याभावरूपभेदस्य वाच्यत्वे स्वीकृते सति राजपुरुषः इत्यस्य  राजभिन्नासम्बन्धी पुरुषः इति बोधः। यदि अन्योन्याभावरूपभेदार्थः स्वीकृता न स्यात्तर्हि येन प्रकारेण ‘राजपुरुषः सुन्दरः’ इति प्रयोगः भवति तेनैव प्रकारेण ‘राजपुरुषः देवदत्तस्य’ इति प्रयोगोऽपि स्यात् । तन्माभूदित्यर्थं भेदरूपवाच्यर्थः स्वीक्रियते । भेदरूपवाच्यार्थे स्वीकृते सति ‘देवदत्तस्य’ इति पदस्य ‘राज्ञः’ इत्यत्रान्वयात् पुरुषपदेन सह समासो न भविष्यति । अतः समासाभावात् ‘देवदत्तस्य राजपुरुषः’ इति न साधुप्रयोगः ।
पुनश्च समासस्य द्वितीयभेदं संसर्गं बोधयितुमाह - राजसम्बन्धवानित्यादि । द्वयोः भिन्नपदार्थयोरेव सम्बन्धो भवति । सम्बन्धो हि सम्बन्धिभ्यां भिन्नः द्विष्ठः विशिष्टबुद्धिनियामकश्च भवति। यत्र सम्बन्धस्तदा द्वयोर्मध्ये भेदः इति। अतः  भेदरूपार्थं उपायान्तरण लभ्यो वर्तते । अनन्यलभ्यो हि शब्दार्थ इति  नियमात् राजविशिष्टपुरुषबोधे संसर्ग एव वाच्य इत्येतत्सर्वं मनसि निधायोच्यते संसर्ग इति ।
सम्बन्धो वाच्योऽस्ति, भेदोऽर्थतः प्रतीयते ।अथवा भेदो वाच्योऽस्ति सम्बन्धोऽर्थतः प्रतीयते । अत्र एकतरनियामिका युक्तिर्नास्ति ।अतः भेदसम्बन्धयोर्मध्ये कस्य वाच्यता स्यादिति निश्चितं नास्ति। एतदेव विनिगमनाविरह उच्यते ।
जहत्स्वार्थावृत्तिः-
तत्र जहति परित्यजन्ति पदानि स्वार्थं यस्यां वृत्तौ सा जहत्स्वार्था वृत्तिर्भवति । अयं  भावः – येन प्रकारेण पदे वर्णा न सन्ति, तेनैव प्रकारेण समासेऽपि पदार्थाः न सन्ति अर्थात् समासे पदार्था असत्या वर्तन्ते । तत्र राजपुरुषपदेन  समासशक्त्यैव राजविशिष्टपुरुषभानं भवति । अस्यां वृत्तौ राजपुरुषादिसमासादौ अतिरिक्ता शक्तिर्नास्ति राजपुरुषपदाभ्यामेव राजसम्बन्धिपुरुषबोधो जायते आकांक्षादिवशात् । पुनः राजपुरुषयोः शक्तिकल्पनमनुचितम्।  यथा- वृषभपदे यावकपदे च पृथगर्थवत्वं नास्ति अपितु समुदायस्यैवार्थवत्त्वमस्ति। यदि राजपुरुषपदयोःपृथगर्थवत्वं स्वीकृतं स्यात्तर्हि ‘ऋद्धस्य राज्ञः पुरुषः’ इत्यत्र ‘ऋद्धस्य’ इत्यस्य ‘राज्ञः’ इत्यत्रान्वयो येन प्रकारेण भवति तेनैव प्रकारेण “ऋद्धस्य राजपुरुषः” इत्यस्यापि साधुत्वं स्यात्। तान्माभूदित्येवमर्थं पृथगर्थवत्त्वं नास्ति । “ऋद्धस्य राज्ञः पुरुषः” इति प्रयोगः साधुः वर्तते । यतो हि राजपदार्थस्याप्याप्यत्र मुख्यविशेष्यतयोपस्थितिर्भवति । अतः  ऋद्धस्य इत्यस्य राजपदार्थे अन्वये सति उक्तप्रयोगः साधुः भवति । परन्तु  ऋद्धस्य राजपुरुषः इति प्रयोगस्य साधुत्वं नास्ति,  “पदार्थः पदार्थेनान्वयेति न तु पदार्थैकदेशेन”  इति व्यत्पत्तिविरोधात्। अर्थात् “राजपुरुषः इति समस्तस्थले राजपदार्थस्य मुख्यविशेष्यतोपस्थितिर्न भवति ष अतः राजपदार्थे अन्यपदार्थस्य(ऋद्धपदार्थस्य) अन्वयो न भविष्यति। इत्थं सुष्पष्टं यत् ऋद्धस्य राजपुरुषः इत्यस्यासाधुत्वमेव ।यदि राजपुरुषयोः पृथक् पृथगर्थवत्त्वं स्यात्तर्हि राजपदेनापि राजपदार्थस्य मुख्यविशेष्यतयोपस्थितेः सत्वात् ऋद्धस्य रादपुरुषः इत्यनिष्टप्रयोगः स्यात्। अतः राजपुरुषयोः पृथक्-पृथगर्थवत्वं नास्ति ।
अजहत्स्वार्थावृत्ति- 
ननु अजहत्स्वार्थवृत्तिः का...?इति जिज्ञासाशान्त्यर्थमुच्यते   न जहति पदानि स्वार्थं यस्यां सा अजहत्स्वार्था इति । यस्यां वृत्तौ पदानि स्वीयमर्थं न परित्यजन्ति साऽजहत्स्वार्था वृत्तिर्भवति ।
ननु अजहत्स्वार्थावृत्तिपक्षे अवयवार्थस्यापि सत्त्वात् ऋद्धस्य राजपुरुषः इति प्रयोगस्याऽऽपत्तिः स्यात् । राजपदार्थस्यापि मुख्यविशेष्यतया पृथगुपस्थितः सत्त्वात्। तत्र ऋद्धस्य इति पदस्य विशेषणत्वेनान्वयः स्यादिति वक्तुं न शक्यते।  विशेषणस्य आकांक्षायां वृत्तिर्न भवति अथवा समासादिवृत्तौ सत्यां पदार्थैकदेशस्य विशेषणे अन्वयो न भवति अर्थात् सविशेषणानां वृत्तिर्न इति वार्तिकेन निषेधात् ‘ऋद्धस्य राजपुरुषः’ इत्यत्र ‘ऋद्धस्य’ इति पदस्य न राजपदार्थे विशेषणत्वेनान्वयः ।  अतः वक्तुं शक्यते यत् येन प्रकारेण पद्मत्वेन बोधार्थं  पङ्कजशब्दे विशिष्टशक्तेः कल्पना कृतास्ति तेनैव प्रकारेण समासेऽपि अतिरिक्ता शक्तिर्वर्तते ।
सन्दर्भग्रन्थसूची-
1-महाभाष्यम्
2- वैयाकरणभूषणसारः
3-लघुसिद्धान्तकौमुदी
4-सिद्धान्तकौमुदी
5-परमलघुमञ्जूषा
6-परिभाषेन्दुशेखरम्

टिप्‍पणी

और नया पुराने