भाषायां समासस्य अतीवोपयोगिता वर्तते । पाणिनीयव्याकरणप्रक्रियायाः महत्वपूर्णाङ्गस्ति समासः। समासः एका संज्ञा । सम सनं समासः, समुपसर्गपूर्वकात् असु क्षेपणे धातोः भावे घञ् प्रत्यये कृते समासशब्दः सिद्ध्यति । तस्यार्थो भवति संक्षिप्तीकरणं , अर्थात् अनेकपदानां यत्र संक्षेपीकरणं भवति स समासः। समासविचारप्रसङ्गे दार्शनिकेषु मध्ये पर्याप्तमतभेदो दृश्यते । प्रबन्धेऽस्मिन् सङ्क्षेपेण समासभेदपुरस्सरं दर्शनान्तरमतं तिरस्कृत्य भूषणसारकारीयं मतं सिद्धान्ततया व्यवस्थाप्यते ।
समासपरिचयः—
प्राक्कडारात्समासः  इति सूत्रं समासाधिकारं ब्रवीति ,तथा हि अष्टाध्याय्यां 2.1.3 तः आरभ्य कडाराः कर्मधारये  2.2.38 इति सूत्रपर्यन्तं समास इति संज्ञाधिक्रियते । इदम् संज्ञाधिकारसूत्रम् वर्तते । मध्ये समागतैः सूत्रैः समासो विधीयते । समासः पदविधिरतः तस्य कृते सामर्थ्यमावश्यकम् । तथा हि सूत्रं समर्थः पदविधिः । अनेन एकार्थीभावसामर्थ्ये सति समासो भवति । समासस्य लक्षणम् –व्याकरणशास्त्रप्रणेतृपाणिन्यादिमुनिकृतसंकेतसम्बन्धे- नसमासपदवत्त्वम् । अत्रादिपदेन कात्यायनपतञ्जली ग्राह्यौ ।
समासभेदाः—
भूषणसारकारेणसमासभेदः इत्थम् प्रतिपादितः । तथाहि कारिका वर्तते ।
सुपां सुपा तिङा नाम्ना  धातुनाऽथ तिङां तिङा ।
सुबन्तेनेति च ज्ञेयं समासः षड्विधो बुधैः ।।
सुपां सुपा – सुबिति प्रत्ययः , अतः प्रत्ययग्रहणे यस्मात्स विहितः तदादेः तदन्तस्य ग्रहणमिति परिभाषया तदन्तविधिं सम्पाद्य सुबन्तस्य सुबन्तेन समासो भवतीत्यर्थः सिद्ध्यति  ।सुपां तिङा – सुबन्तस्य तिङन्तेन । सुपां नाम्ना – सुबन्तस्य प्रातिपदिकेन । सुपां धातुना – सुबन्तस्य धातुना । तिङां तिङा – तिङन्तस्य तिङन्तेन । तिङां सुबन्तेन – तिङन्तस्य सुबन्तेन । इत्थम् समासस्य षड्विधत्वं वर्तते ।
सुपां सुपा-  
सुबन्तस्य सुबन्तेन सह समासो भवति । अत्र पूर्वपदं सुबन्तमुत्तरपदमपि सुबन्तं भवति । यथा- राजपुरुषः । अत्र पूर्वपदं राज्ञः इत्यपि सुबन्तम् , उत्तरपदमपि पुरुष इति सुबन्तम् वर्तते। अतोऽत्र  षष्ठी सूत्रेण सुबन्तस्य सुबन्तेन सह समासो भवति ।
सुपां तिङा-
सुबन्तस्य तिङन्तेन सह समासो भवति । यथा – पर्यभूषयत् , अनुव्यचलत् । अत्र पूर्वपदं परि, अनु  सुबन्तं तथा चोत्तरपदं अभूषयत् ,अचलदिति तिङन्तं विद्यते । गतिमतोदात्तवता तिङाऽपि समासः इति वार्तिकेन  अत्र सुबन्तस्य तिङन्तेन सह समासो भवति ।
सुपां नाम्ना –
सुबन्तस्य नाम्ना अर्थात् प्रातिपदिकेन सह समासो भवति । तथा हि कुम्भकारः इत्यत्र कुम्भं करोतीति विग्रहवाक्ये गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः । इति परिभाषया सुबुत्पत्तेः प्राक् प्रातिपदिकेनात्र समासो वक्तव्यः । अत्र उपपदमतिङ् सूत्रेण समासो भवति ।
सुपां धातुना –
सुबन्तस्य धातुना सह समासो भवति । अर्थात् पूर्वपदं सुबन्तं उत्तरपदं च धातुमात्रम्  । कटप्रूः उदाहरणम् वर्तते । अत्र क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणञ्च ।। इत्यनेन समासः ।
तिङां तिङा –
अर्थात् तिङन्तस्य तिङन्तेन सह समासो भवति । पूर्वपदं तिङन्तम् , उत्तरपदमपि तिङन्तम् । यथा – पिबतखादता , पचतभृज्जता । अत्र आख्यातमाख्यातेन क्रियासातत्ये इति मयूरव्यंसकादयश्चेति सूत्रस्थ गणसूत्रेण समासो भवति ।
तिङां सुबन्तेन-
पूर्वपदं तिङन्तमुत्तरपदं सुबन्तम् । यथा जहिजोडः । जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति ।इति मयूरव्यंसकादयश्चसूत्रस्थगणसूत्रेण समासो विधीयते ।
समासे एकार्थीभावसामर्थ्यम्—
कृत्तद्धितसमासैकशैषसनाद्यन्तधातुरूपा पञ्चवृत्तयः भवन्ति । तेषु समासः एका वृत्तिः । समासादिपञ्चसु वृत्तिषु विशिष्टे एव शक्तिः विद्यते । अवयवे शक्तिर्नास्ति । अवयवार्थाननुभवात् । तथा हि जहत्स्वार्थाऽऽजहत्स्वार्थाभेदेन वृत्तिः द्विधा । तद्यथा –
जहत्स्वार्थाऽजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा ।
भेदः संसर्गः उभयञ्चेति वाच्यव्यवस्थितेः ।।
जहति पदानि स्वार्थं यस्यां सा जहत्स्वार्था । अवयवार्थनिरपेक्षत्वे सति समुदायार्थबोधिकात्वं जहत्स्वार्थात्वम् । अर्थात् यत्र अवयवार्थभानाभावे सति समुदायार्थभानं भवति , सा जहत्स्वार्थावृत्तिः भवति ।अस्या उदाहरणानि भवन्ति । रथन्तरं साम , शुश्रूषा सेवा इत्यादीनि ।
न जहति पदानि स्वार्थं यस्यामिति अजहत्स्वार्था । अस्या लक्षणं भवति —अवयवार्थसम्बलितिसमुदायार्थबोधिकात्वमजहत्स्वार्थत्वम् । अर्थात् यस्यां वृत्तौ अवयवार्थेन सह समुदायार्थबोधः सा किल अजहत्स्वार्था वृत्तिः ।
रथन्तरं सामेत्यादौ अवयवार्थस्यानुभवाभावेन पञ्चसु वृत्तिषु विशिष्ट एव शक्तिर्मन्तव्या नैवावयवे इति वैयाकरणमतम् । परन्तु नैयायिकमीमांसकादिभिः समासे विशिष्टा शक्तिः नाङ्गीक्रियते ।
नैयायिकमतम् –
नैयायिकानां मते राजपुरुष इत्यत्र राजपदेन राजत्वावच्छिन्नस्य पुरुषपदेन पुरुषत्वावच्छिन्नस्योपस्थितिर्भवति । तदनन्तरमाकाङ्क्षा- योग्यता- आसत्ति-तात्पर्यादिसहकारिकारणैः राजविशेषणकपुरुषविशेष्यकसम्बन्धज्ञानं भवति । अथवा लक्षणया योऽर्थः ज्ञातुम् शक्यते ,तत्र लक्षणैव आवश्यकी, न तु शक्तिः ।
अत एव तिङां कृतौ शक्तिः रथो गच्छतीत्यादौ आश्रयादौ लक्षणा । एवञ्च राजपुरूष इत्यत्र क्लृप्तशक्तिकात् राजादिपदात् क्वचित् लक्षणां बिना ,क्वचिच्चलक्षणायार्थप्रतीतिर्भवति । राजपुरुष इति लौकिकविग्रहे राजपुरुषः इति राजा चासौ पुरुष इति कर्मधारये समासे लक्षणां विना अभेदान्वयो भवति । राज्ञः पुरुष इति विग्रहे तु राजपुरुष इति षष्ठी  सूत्रेण षष्ठीतत्पुरुषसमासे पूर्वपदस्य राज इत्यस्य सम्बन्धिनि लक्षणया राजसम्बन्धाभिन्नः पुरुष इति शाब्दबोधो भवति । चित्रगुरित्यादिबहुब्रीहिसमासेऽपि उत्तरपदस्य चित्रगुस्वाम्यादौ लक्षणा पूर्वपदन्तु तात्पर्यग्राहकम् ।
मीमांसकमतम् –
सर्वत्र यौगिकैः शब्दैः द्रव्यमेवाभिधीयते इति वार्तिकानुरोधात्  अरूणाधिकरणाद्यनुरोधात् च सर्वेषां कृदन्त- तद्धितान्तसमासरूपाणां यौगिकशब्दानां द्रव्ये शक्तिः एव स्वीकरणीया । न तु अवयवशक्त्या निर्वाहः सम्भवतीति । अर्थात् अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति इत्यत्र पिङ्गाक्षीशब्दस्य एकहायनीशब्दस्य च द्रव्यवाचकत्वं स्वीकृतं वर्तते । पिङ्गे अक्षिणी यस्या सा पिङ्गाक्षी गौः इति अत्रावयवशक्त्या द्रव्यवाचकत्वं न सम्भवति , अपि तु समुदायशक्त्यैव ।
अन्ये मीमांसकास्तु –
सर्वत्र यौगिकैःशब्दैः द्रव्यमेवाभिधीयते  इति वचनम् , अनिर्ज्ञातशक्तियौगिकपरम् इति मन्यन्ते । तथा च यौगिकशब्देषु केषाञ्चित्शब्दानां द्रव्यवाचकत्वेऽपि समासे सर्वत्र शक्तिं न स्वीकुर्वन्ति ।पिङ्गाक्ष्यादौ गुणवाचकपदे बहुब्रीहः वर्तते । गुणश्च द्रव्यं बिना स्थातुं न शक्नोति , अतः द्रव्याबिनाभूतगुणवाचकपदबहुब्रीहेः द्रव्यवाचकत्वेऽपि सर्वत्र बहुब्रीहिसमासे समासान्तरेषु वा शक्तिर्नास्त्यैव इति एतेषां सिद्धान्तः ।
भूषणकारमतम् –
भूषणानुसारेण समासादिवृत्तौ अवयवशक्त्यतिरिक्ता समुदायशक्तिर्वर्तते । यथा रामः पदे राम इत्यस्य अर्थवत्ता वर्तते । रामपदघटकीभूता ये वर्णा र, अ,म्,अ विसर्गादयः तत्रार्थवत्त्वं नास्ति । तद्वद् वृत्तावपि समुदाये अर्थवत्त्वं तिष्ठति । न तु समासघटकीभूतेषु पदेषु पदयोर्वा ।समुदायशक्तिस्वीकारेणैव ऋद्धस्य राजपुरुष इति प्रयोगस्य प्राप्तिर्नास्ति । अवयवशक्तिमते तु प्राप्तिस्स्यादेव ।
समासे शक्त्यस्वीकारे अपरेऽपि अनेके दोषा आपतन्ति । तद्यथा – घनश्यामः ,धवखदिरौ , निष्कौशाम्विः इत्यादिषु प्रयोगेषु सादृश्य ,चकारार्थसमुच्चय निष्क्रान्तेत्यादीनाम् पदानां समासेऽपि प्रयोगापत्तिर्वर्तते । किञ्च चित्रगुरित्यादिसमासेषु चित्रशब्दस्य चित्ररूपः अर्थो वर्तते । गोशब्दस्य च गोरूपः अर्थः । स्वामिरूपोऽर्थः कस्यापि पदस्य नास्ति । तथापि चित्रगुरित्यादिपदेन स्वाम्याद्यर्थस्य प्रतीतिर्भवत्येव । अत्र अनेकमन्यपदार्थे  सूत्रेण समासो भवति । अतः समुदायशक्तिरवश्यमभ्युपेया। लक्षणादिद्वारा स्वाम्याद्यर्थस्य प्रतीतिर्भवितुं नार्हति ।चित्रपदस्य लक्षणायां चित्रस्वामीगौः इत्यर्थस्य प्रतीतिः , गोपदस्य लक्षणायां चित्राभिन्नगोस्वामी इत्यर्थस्य प्रतीतिः। यदि च चित्राभिन्नागौः इत्यन्वयबोधं कृत्वा लक्षणा क्रियते तदा विनिगमिनाविरहात् कस्मिन्पदे लक्षणेति वक्तुं न शक्यते । यदि पदद्वयेऽपि लक्षणा क्रियते तदा बोधावृत्तिप्रसङ्गः । अतः अवश्यमेव समुदाये शक्तिः स्वीकर्तव्या । अवयवशक्त्या निर्वाहो न भवितुमर्हति ।
निष्कर्षः –
इत्थम् नैयायिकाः मीमांसकाश्च अवयवशक्तिवादिनस्सन्ति । ते वाक्ये वृत्तौ च सर्वत्र व्यपेक्षावादिरूपं सामर्थ्यं स्वीकुर्वन्ति ।तेषां मते समासे अवयवातिरिक्ताशक्तिर्नास्ति । अवयवशक्त्या लक्षणया वा निर्वाहो भवति तेषां मते । वैयाकरणास्तु समासे पृथक्शक्तिं स्वीकुर्वन्ति । अवयवशक्त्या निर्वाहः न  कर्तुम् शक्यते अपि तु विशिष्टशक्तिःस्वीकरणीया एव इति पक्षं प्रबलाभिः युक्तिभिः साधयन्ति । वैयाकरणानां सिद्धान्ते वाक्ये व्यपेक्षारूपं सामर्थ्यं वृत्तौ चैकार्थीभावसामर्थ्यं वर्तते । तथा चोक्तम् –
समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । इति दिक्

टिप्‍पणी

और नया पुराने