साहित्यशब्दस्य व्युत्पत्तिः – 

सम् + धा + क्त

दधातेर्हि (धा स्थाने हि आदेशः)
सम् + हि + क्त

अनुबन्धलोपः (लशक्वतद्धितेः सूत्रेण प्रत्ययादिककारस्य इत् संज्ञा‚ लोपश्च)
सम् + हि + त
सम् + हित

 
मोSनुस्वारः (मकारस्य अनुस्वारादेशः)
संहित

लुम्पेदवश्यमः कृत्ये तुङ्काममनसोरपि‚ 
समो हितततयोर्वा मांसस्य पचि युड्घञोः ।
उपर्युक्त नियमेन ʺहितʺ शब्दः परे सति ʺसम्ʺ उपसर्गस्य ʺम्ʺकारस्य वैकल्पिकलोपः ।
स + हित
सहित

साहित्यशब्दस्य विवक्षायां सहित शब्देन सह ष्यञ् प्रत्ययः
सहित + ष्यञ्

अनुबन्धलोपः (हलन्त्यम् सूत्रेण ʺञ्ʺकारस्य इत् संज्ञा‚ षः प्रत्ययस्य सूत्रेण ʺष्ʺकारस्य इत् संज्ञा लोपश्च)
सहित + य

आदिवृद्धिः टिलोपश्च
साहित् + य

सुप्विधानम् (नपुंसकलिंगम्‚ प्रथमाविभक्तिः‚ एकवचनम्)
साहित्यम् 

इति सिद्धम्



परिभाषाः – 

  1. सहितयोः भावः साहित्यम्
  2. सहितौ सहितभावेन साहित्येनावस्थिते         = कुन्तकाचार्यः
  3. संहितत्वं सहितत्वं वा साहित्यम्                    = श्री राधाबल्लभत्रिपाठी 
  4. साहित्यं नाम विहितत्वं प्रहितत्वं पिहितत्वं
    सन्निहितत्वं निहितत्वमवहितत्वं वा            = श्री विद्‍यानिवासमिश्रः

इति

टिप्‍पणी

नया पेज पुराने